This page has not been fully proofread.

सरः ]
 
प्राणस्यवायुक्क्रियाविशेषत्वतत्वान्त रत्वयोर्निरासः
 
555
 
तत्व मुक्ताकलापः
 
न क्रिया द्रव्यतोक्तेः तेजोवद्वान तत्वान्तरमगणनतो
 
सर्वार्थसिद्धिः
 
प्रयोजनमान्द्यात् । अस्तु तर्हि वायोः क्रियाविशेषः
प्राणः ? स्तिमितवायौ प्राणशब्दप्रयोगाभावात् उच्छ्रासादौ
प्रयोगाच्चेत्यत्राह - न क्रियेति । हेतुमाह - द्रव्यतोक्तेरिति ।
वायुर्द्रव्यमि(ति) त्येतावत्सिद्धम् । प्राणे च तदुक्तिस्सार्वत्रिकी ।
प्राणस्स्पन्दत इति च पृथग्व्यपदिशन्ति । उक्तश्च सह
पाठो न तत्क्रियायाः; अग्रथप्रायनयविरोधात् । न च मनः
प्रभृतीनां क्रिया तैस्सहात्र पठ्यते ! इति भावः । यद्यसौ वायु-
विकारविशेषः; वह्निरिव तत्वान्तरं स्यादित्यत्राह -- तेजोवदिति ।
यदि तत्वपङ्क्तौ निविष्टः प्राणः ; भूतान्तरवत् पृथक्संख्यायेत ;
न ह्येवमसौ इत्याह- अगणनत इति । तत्वपरिगणनं च पूर्वपूर्व-
नियतस्वभाव परित्यागेन विकारान्तरसृष्टौ ; न तु विकारमात्रे ;
 
आनन्ददायिनी
 
1
 
प्राणे वायुशब्दप्रयोगानुपपत्तिः ; उपचारादुपपत्तेरिति शङ्कते — अस्तु
तर्हीति । द्रव्यतोक्तिः– द्रव्यवाचकवायुशब्देनोक्तिरित्यर्थः । क्रिया
अनन्यथासिद्धहेत्वभावेन वायुव्यपदेशस्य औपचारिकत्वाभावादिति भावः ।
द्रव्यत्वे सौत्रमाह---प्राणस्स्पन्दत इति । सौत्रोपदेशशब्दस्वारस्याद्विव-
क्षितहेतुमाह-उक्तश्चेति । यद्यसाविति - वायुविकारत्वाविशेषादिति भावः ।
ननु तर्ह्यस्य वायुविकारत्वे ' चतुर्विंशा प्रकृतिः पञ्चविंश आत्मा' इत्या-
दिपरिगणनमयुक्तं अधिकस्य सत्त्वादित्यत्राह तत्वपरिगणनं चेति ।
 
SARVARTHA.
 
35