This page has not been fully proofread.

544
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
प्राणयोस्सहपाठात् । न चात्र प्राणशब्दोऽन्यार्थः ; अबाधे
(अ) प्रसिद्धत्यागायोगात् । न च वायुसामान्ये प्राणशब्द-
प्रसिद्धिः ! जगत्प्राण इति समाख्या तु न तदंशस्य शक्तिं गम-
येत् । देहावच्छेदमात्रेण विशेषात् पृथगुक्तिरिति चेन्न ; तत्सृष्टेः-
 
आनन्ददायिनी
 
तत्सहपठितवायुत्वा(न)तिरिक्त (वायु)वृत्तिप्रवृत्तिनिमित्तकशब्दबोध्यत्वात् ।
प्राणशब्दो वायुत्वातिरिक्त (धर्म) प्रवृत्तिनिमित्तकः तत्सहप्रयोगविषयत्वात्
फूत्कारमन आ(फूत्कार उदका) दि (शब्द) वदिति विशेषसिद्धेरित्यर्थः ।
ननु (साङ्ख्योक्तरीत्या) वाय्वन्यत्वमेवास्तु ! तत्राह--न चेति । प्राणो
वायुरिति प्रसिद्धेर्धटो द्रव्यमिति प्रसिद्धिवद्वाधकाभावात् प्रत्यक्षतो
वायुत्वस्योपलम्भाच्चेति भावः । ननु वायुप्राणशब्दौ पर्यायावेव ; अत
एव ' जगत्प्राणसमीरणाः' इति नामानुशासनं; सहपाठश्च कथञ्चिन्नेय
इत्यत्राह न च वायुसामान्य इति । बाह्यवायौ प्राणशब्दप्रयोगा-
भावात् नामानुशासनस्याश्वकर्णादिवत् विशिष्टशक्तिग्राहकस्यावयव-
शक्तिग्राहकत्वाभावान्न पर्यायत्वमिति भावः । ननु प्राणशब्दस्य
देहावच्छिन्नत्वाकारेण लक्षणया प्रयोगोऽस्तु ; तथा च न भेदसिद्धिरिति
शङ्कते—देहावच्छेदेति । तत्सृष्टेरिति — तत्सृष्टयुक्तेरित्यर्थः । वायु-
सामान्यसृष्ट्यैव तत्सृष्टेरुक्तत्वादिति भावः । न च सिद्धान्तेऽपि प्रयो-
जनमान्द्यम् ; प्राणत्वस्य विशेषतया तदवच्छेदेनोत्पत्तेर्ज्ञाप्यत्वात् ।
न चैवं शरीरावच्छिन्नत्वेनात्रापि ज्ञाप्यभेदः; शरीरावच्छिन्नवायुत्वस्य
वायुत्वशरीराद्यतिरिक्तत्वाभावेन तदतिरिक्तज्ञाप्याभावात् । ननु
क्रियैव
प्राणः ; तथा च पृथगुक्तिर्यु (क्तैव ) ज्यत एव । न च प्राणो वायुरिति