This page has not been fully proofread.

सरः ]
 
प्राणस्य महत्तत्वविशेषरूपतानिरासः
 
543
 

 
तत्वमुक्ताकलापः
 
न प्राणो वायुमात्रं सह परिपठनात्
 
सर्वार्थसिद्धिः
 
अथ राजसमहान् प्राण इति वदतः प्रतिवक्तुं प्राणस्य
वायुविशेषतां विवक्षुः तत्र विशेषापहवं प्रतिषेधति - न प्राण इति ।
वायुत्वप्रसिद्ध्याऽसौ वायुमात्रमिति चेन्न ; सर्वत्र सामान्य-
प्रसिद्धया विशेषत्यागप्रसङ्गात् । अयोग्ये च नानुपलम्भबाधः ।
श्रुतिप्राप्तं हेतुमाह — सहेति । ' एतस्माज्जायते प्राणो मन-
स्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिराप:' इति सृष्टिवाक्ये वायु-
आनन्ददायिनी
 
-
 
राजसमहान् प्राणो देहं धत्ते वाय्वधिष्ठातेति साङ्ख्यपक्षं वायु-
मात्रं तत्क्रिया वा प्राण इति योगपक्षं आकाशादि पञ्चकं रजः प्रकृतिकं
(शादिःरजःप्रकृतिकः) प्राण इति माय्येक ( यिमतैक) देशिपक्षं च प्रसङ्ग-
सङ्गत्या निराकरोतीत्याह – अथेति । विशेषो - वायुत्वावान्तरजातिः ।
अयं प्राणो वायुमात्रं वायुत्वप्रसिद्धिमत्त्वात् ; यद्यत्प्रसिद्धिमत् तत्तन्मात्रं
यथा समुद्रजलम् । जल(मात्र) प्रसिद्धिमज्जलमात्रमित्यनुमानमभिप्रेत्य व्या-
(व्यभिचारमाह-) चष्टे – सर्वत्रेति । तेजस्त्वेन प्रसिद्धवयादेर्विशेषता
न स्यादिति भावः । विशेषत्वस्य प्राणादावनुपलम्भबाघ इत्यत्राह -
अयोग्ये चेति । ननु बाधकाभावमात्रान्नानुपलम्भ (लब्धि) विशेषसिद्धि-
रित्यत्राह श्रुतीति । सहपाठो हि नानार्थानां सामान्यविशेषार्थानां
वा दृष्टो न पर्यायाणां ; अतो न वायुशब्दपर्यायता प्राणशब्दस्येति ।
प्राणो वायुत्वातिरिक्तवायुत्व (तत्व) व्याप्यप्रवृत्तिनिमित्तकशब्दबोध्यः
 
-