2025-01-21 07:47:41 by ambuda-bot
This page has not been fully proofread.
542
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
तद्वाह्ये व्याप्तिरिष्टा यदि सततगतेरप्यसावस्तु बाह्ये ॥
सर्वार्थसिद्धिः
सङ्ख्यादेरग्रहः स तोयादावपि समः । प्रसङ्गस्य व्याप्तिभङ्ग-
मा (ङ्गस्याव्याप्तिमप्या) ह -नचेति । आत्मनि तावद्यद्यप्यहमेक
इति धीस्स्यात् ; तथापि तत्परिमाणं न गृह्यते । अत एव
ह्यणुत्वविभुत्वदेहपरिमाणत्वसंदेहः । एवमन्यदपि । तथा बा -
ष्वपि द्रव्योपलम्भेऽपि द्वित्ववित्वाद्यग्रहो दृष्टः । उक्तव्यतिरि-
तेष्वयं नियम इति शङ्कते --तद्वाह्य इति । सान्तर्हासमाह -
सततगतेरिति । यथादर्शनं व्यवस्था त्वयाऽपि दुस्त्यजेति भावः ॥
वायुप्रत्यक्षत्वम्.
l
आनन्ददायिनी
भाव उच्यते । तोयादिवत् सजातयिसंमेलनस्य प्रतिबन्धकत्वात् राशि-
वन्याद्यवयव(न्यागत)व्रीहिवृक्षादिगत संख्यादिप्रत्यक्षव (ख्याद्यप्रत्यक्षत्वा )-
दित्यर्थः । अनिष्टप्रसङ्गरूपाङ्गहानिमुक्ता अङ्गान्तरहानिमप्याह — प्रसङ्ग-
स्येति । नन्वह (न्वात्मन्यह) मेक इति संख्याया ग्रहणात्तत्र व्यभिचारा-
भावात् कथं व्याप्तिभङ्ग इत्यत्रह - आत्मनीति । तथा च संख्याव्यति-
रिक्तेषु प्रत्यक्षत्वापादने आत्मगतपरिमाणा ( दौ) दिषु व्याप्तिभङ्ग इत्यर्थः ।
मूलोक्तप्रभृतिशब्दार्थं विवृण्वन् संख्यायामपि व्याप्तिभङ्गं दर्शयति
तथा बाह्ये(ष्वपी)ष्विति । राशिसेनावनस्पतिवन्याद्यवयवगतद्वित्वादावि-
त्यर्थः ॥ ५२ ॥
वायुप्रत्यक्षत्वम्
---