This page has not been fully proofread.

सरः ]
 
वायुगतसंख्यादेः प्रयक्षत्वापादनस्येष्टापत्त्या परिहारः
 
541
 
तत्वमुक्ताकलापः
 
इष्टं त्वंशे नचात्मप्रभृतिषु सह ते तैः प्रसिध्यन्ति सर्वे
सर्वार्थसिद्धि
 
स्वाधारद्रव्योपलबधयोग्यतासमानयोग्यताकत्वादित्यर्थः । अत्रां-
 
शत इष्टप्रसङ्गतामाह — इष्टमिति । उपलभ्यते ह्येका वह्निशिखा
एका वारिधारेत्यादिवत् एकोऽयं वायुरिति । रन्ध्रभेदनिष्क्रान्तेषु
च वायुषु सावधानं स्पृश (तो) तां द्वित्वद्विपृथक्कादयो भान्ति ।
यावता च त्वगिन्द्रियभागेन वायुस्संबध्यते तावदवच्छिन्नं तत्प-
रिमाणं च गृह्यत एव । न हि घटादावपि त्वगिन्द्रियसंबद्धप्रदे-
शाभ्यधिकवर्ति परिमाणं तेन गृह्यते ! स्पृष्टापसृते वायौ
संयोगविभागौ स्फुटैा । एकस्मिन् शरीरे अनेकैर्वेशरन्ध्रादिभिर-
नेकेषु वायुस्रोतस्सु प्रवर्तितेषु तत्तदपेक्षया परत्वापरत्वे अपि
सुलभे । कर्म च वातीति प्रत्ययात् । अन्यथा सरित्प्रवाहे
स्यन्द (त्वं)नं त्वचा न गृह्येत । यस्तु वायोस्संमूर्छनाद्यवस्थासु
आनन्ददायिनी
 
माणादत्यिादिग्रहणेन संयोगविभागपरत्वादिसंग्रहः । स्वाधारेति —
संख्यादेः स्वाधारभूतद्रव्यप्रत्यक्षत्वयोग्यताव्यापक प्रत्यक्षत्वयोग्यताकत्वा-
दित्यर्थः । वायुगतसंख्यादिमात्रपक्षीकारे अंशत इष्टापत्तिरित्याभासत्वं
तर्कस्येत्याह — अत्रांशत इति । ननु सर्वप्रदेशावच्छदेनापि परिमाणं
गृह्यते सन्निकृष्टत्वादित्यत्राह - न हीति । अन्धकारस्यह्रस्वा (ह्रस्वदीर्घा) दि-
स्तम्भैकदेशस्पर्शे अयमस्मादधिकपरिमाणवान्न वेति संशयदर्शनादिति
भावः । अन्यथेति — अविशेषादिति भावः । संमूर्छनं—विरुद्धगति-
मतो (राभिख्येन संबन्धः ) स्समूहीभावः । आदिशब्देन निरन्तरस्रोतो-