2025-01-21 07:47:36 by ambuda-bot
This page has not been fully proofread.
538
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
वातो वातीति साक्षान्मतिरितरसमा स्पर्शतो
नानुमाऽसौ अन्धेऽन्येषु प्रसङ्गात्
सर्वार्थसिद्धिः
आकाशे चिन्तिते प्रसङ्गाद्दिगन्तर्भाव उक्तः ; अथाकाशा-
नन्तरभाविनि वायौ स्वरूपतस्संप्रतिपन्ने प्रमाणविप्रतिपत्तिं निर-
रस्यति—वातो वातीति । त्वगिन्द्रियपवनसंयोगे सति सावधा-
नस्य वातो वातीति धीस्तावद्दुरपलपा ; सा साक्षात्काररूपा
क्षित्यादिधीसमत्वादित्यर्थः । यदत्र गुणेन गुण्यनुमानमाहुः ;
तत्प्रतिषेधति – स्पर्शत इति । न हि गन्धादिवदिह गुणमात्रोप-
लम्भ इति भावः । अन्यथा ऽतिप्रसङ्गमाह – अन्धे इति । अन्धे
पुरुषे अन्येषु पृथिव्यादिषु भूतेषु त्वगिन्द्रियेण या स्पर्शधीस्सा
स्पर्शमात्रविषया तत्तद्द्व्यानुमितिहेतुस्स्यात् ; अन्धोक्तिश्चक्षुषा
आनन्ददायिनी
अवसरलक्षणसंगत्या वायोर्निरूपणीयत्वेन प्रसक्तौ (क्तः)
मध्ये
दिङ्नरूपणस्य का संगतिरित्याशङ्कां परिहरन्नवतारयति - आकाशे
इति । ननु वायुस्वरूपे विवादाभावात् तत्र निरूपणीयं किमित्यत्राह ---
अथेति । अनुमानतस्सा धीरस्त्वित्यत्राह — सेति । क्षित्यादिधीवत्
वायुं स्पृशामीत्यनुव्यवसायादिति भावः । अन्यथेति ——गुणमात्रोपल-
म्भे इत्यर्थः । तदेवोपपादयति - त्वगिन्द्रियेणेति । इष्टापत्तिं परिहरति-