2025-01-21 07:47:36 by ambuda-bot
This page has not been fully proofread.
536
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
हरणमपि ह्यन्यथैवोपपन्नम् । श्रोत्रादुक्तस्तु लोक-
प्रभृतिवदुदयस्तस्य तत्राप्ययो वा नैतावत्तत्वभेदं
सर्वार्थसिद्धिः
'दिशः श्रोत्रम्' इति तद्वदप्ययोऽपि श्रूयते इत्यत्राह - श्रोत्रादिति ।
लोकप्रभृतिवदिति प्रतिबन्दिवचनम् । अत्र हि 'नाभ्या आसीदन्त-
रिक्षम्' इत्यादिभिर्न तत्वसृष्टिश्श्रूयते ; किंतु ब्राह्मणक्षत्रिय (वैश्य-
शूद्र) चन्द्रसूर्यादिव्यष्टिसृष्टिप्रकरणे अन्तरिक्षस्वर्गादि (लोक)कल्प-
नम् । अतो दिक्सृष्टिरपि व्यष्टिविषया न तत्वान्तरं कल्पयितुं
शक्रुयादित्याह - नैतावदिति । अथापि दिशश्श्रोत्रोपात्त (स्य) व्यष्टि-
विशेषत्वं स्यादित्यत्राह - न चेति । श्रौत्रतां - श्रोत्रोपादानकता-
मित्यर्थः । न हि इन्द्रियाणि कस्यचिदुपादानानीति प्रागेवोक्तम् ।
गत्यभावादत्र विशेषः कल्प्यतामित्यत्राह — आन्यपर्यादिति ।
अत्र हि धिगुपाधीनां तत्तदेवतानां वा भगवतः श्रोत्रात् चन्द्रादे-
आनन्ददायिनी
अथापीति—उक्तानन्तर्गतत्वात् अर्था (तत्वा) न्तरं स्यादित्यर्थः ।
दिगुपाधीनामिति — सूर्यादीनां चक्षुरादिजन्यतया तत्प्रमाणगम्यत्वऽपि
न तेषां तेजःप्रभृत्यतिरिक्ततत्वान्तरत्वं ; तथाऽत्रापीति भावः । ननु
प्रमेयसंग्रहे 'गगनस्य दिशां च त्रिवृत्करणेन रूपवत्वं; अतश्चाक्षुषं
सर्वम्' इति दिशः पृथग्गणनमस्ति । तथा वरदविष्णुमिश्रः-
'द्रव्यं च षडूिंशतिविधम् — सत्वरजस्तमांसीत्यारभ्य दिग्द्रव्यं पृथगेव
संख्यातम् । आकाशकालदिशश्चक्षुरिन्द्रियेणेति चाक्षुषत्वं चोक्तम् ।