2025-01-21 07:47:30 by ambuda-bot
This page has not been fully proofread.
534
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
सङ्ख्यानं तत्वपङ्क्तौ क्वचिदपि न दिशः ;
सर्वार्थसिद्धिः
द्यतिरिक्तं कल्पयामः! किन्त्वागमिकमभ्युपेमः ; अतो न तस्या-
सिद्धिरिति भावः ॥ ४९ ॥
यदि पृथक्तेन लोकवेदप्रसिद्धा दिगपहूयेत; तथा वायु-
रपि; अस्य हि उपलभ्यमानः स्पर्शः उष्णशीतोऽनुष्णाशीतो
वा ? त्रेधाऽपि न छान्दोग्याधीततेजोऽवन्नातिरेकस्सिध्येत् ।
तिर्यक्पवनमप्यदृष्टवशात्तेषामेव स्यात् । शब्दधृतिकम्पैरपि
नातिरिक्तमनुमातव्यं ; तैरेव तत्संभवात् । वातोपनीततत्तद्भूता-
न्तरावयवन्यायादनुद्भूतरूपतया दुर्दर्शत्वं स्यादित्यत्राह
सङ्ख्यानमिति । अयं भावः - न हि वयमप्रत्यक्षस्य वायोः
आनन्ददायिनी
व्योमेतरतेत्यर्थः ॥ ४९॥
आक्षेपसंगतिमाह -- यदि पृथक्त्वेनेति । उष्ण इत्यादि-
उष्णतया शीततया अनुष्णाशीततयोपलभ्यमान इ ( इती) त्यर्थः ।
छान्दोग्याधी (धिग)त इति--' हन्ताहमिमास्तिस्रो देवता ' इति छान्दो -
ग्याधीत पृथिव्यप्तेजोऽतिरेकेण न सिध्येदित्यर्थः । ननु पृथिव्यादिवि-
लक्षणधर्मवत्त्वादतिरिक्तस्सिध्येदित्यत्राह - तिर्यक्पवनमिति । ननु पृथि -
व्याद्यन्यतमत्वे रूपवत्त्वापत्तिरित्यत्राह -- भूतान्तरेति । वायू (वातो)
पनीतगन्धावयवतप्तवारिगतवह्याद्यवयववदनुद्भूतरूपवत्त्वसंभवादित्यर्थः ।
ननु दिशस्तत्वपतिपरिगणनाभावो दिक्सिद्धिबाधको न तु वायुसाधक
इत्यत्राह -- अयं भाव इति । 'आकाशाद्वायुः' इति तत्वपरिगणना-