2025-01-21 07:47:30 by ambuda-bot
This page has not been fully proofread.
सरः] अन्यथासिद्धिसमर्थनं अस्य पक्षद्वयतौल्यं स्वपक्षेलाघवं प्रतिबन्दिनिरासश्च 533
तत्वमुक्ताकलापः
तव तदितरता स्यात्तु काले (समाना) स्वमानात् ॥
सर्वार्थसिद्धिः
I
नातिप्रसङ्गः अयस्कान्तादिवत्तन्नियमात् । यन्निबन्धनस्त्वति -
प्रसङ्गः स सिद्धे कल्प्येऽपि समसमाधिः । एवं स्थिते वरमुभय-
कल्पनादेककल्पनम् । ननु शक्तिरपि कल्प्यमाना न निराधारा
कल्प्यते ; तस्मात् साधारशक्तिकल्पने शक्तिविशिष्टाधारकल्पने
वा समं गौरवम् ! तन्न; यद्यपि शक्तितद्वन्तौ मिथोऽवच्छिन्नौ
तथाऽपि सिद्धांशस्य कल्प्यत्वायोगादसिद्धांशनियतैव क्लप्तिरिति
विशेषसिद्धिस्स्यादिति भावः । नन्वेवं वियदादेरेव सूर्यपरिस्पन्दा-
(न्दप्रकर्षाद्यु) पनायकत्वसम्भवात्तदन्यः कालो न सिध्ये-
दित्यत्राह - तदितरतेति । न हि वयं परत्वादिलिङ्गैराकाशा-
आनन्ददायिनी
;
वतु तदतिरिक्तमानेन वा धर्म (र्मि) क्लृप्तिरस्तु तत्रान्वयव्यतिरेक-
एव नियामक: अन्यथा धर्मिग्राहकस्यैवासिद्ध्या धर्मिण
एवासिद्धिप्रसङ्गात् । तथा च क्लृप्तेष्वेव शक्तिकल्पनान्नातिरिक्त-
दिक्सिद्धिरित्यर्थः । अयस्कान्तादिवदिति—यथाऽयस्कान्तेऽयःकर्ष-
णशक्तिरेव नान्याकर्षणशक्तिरित्यर्थः । ननु धर्मिकल्पनमुभयत्रापि
सममिति शङ्कते—नन्विति । साधारणस्य कल्प्यत्वे विशेषणांशेऽपि
विशिष्टकल्पनायाः प्राप्तत्वादित्यर्थः । सिद्धांशस्येति -- विशिष्टकल्पना
हि विशेषणमपि व्याप्नोति ! नात्र विशिष्टकल्पना । विशेषणे धर्मिणि
पाकादिना रूपन्यायेन विशेष्यभूतशक्तेः (शक्तिमात्रस्य) कल्पन-
मित्यर्थः । नन्वेवमिति – दिगादिवदित्यर्थः । ' तदितरता स्यात्तु काले
समाना' इति मूलस्यायमर्थः --- दिक्साम्याभावात्काले तदितरता-
-