This page has not been fully proofread.

532
 
सव्याख्यसर्वार्थसिद्धिसद्दिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
अन्यस्मिन्नन्यधर्मान् घटयतु वियदाद्यत्र नाति-
प्रसक्तिः सिध्यत्कार्योपयुक्तोपनयननियमोपेतत-
च्छक्तिक्लृप्तेः । एवं ह्येवाधिकायामपि दिशि
भवतोऽतिप्रसङ्गो निषेध्यो धर्मो धर्मी च कल्प्यौ
 
:
 
सर्वार्थसिद्धिः
 
हरति — अन्यस्मिन्निति । हेतुमाह - सिद्ध्यदिति । यथा कलम-
बीजस्याङ्कुरजननशक्तिकल्पनेऽपि न कोद्रवाङ्कुरजनकत्वं ; दृश्य-
मानकार्यानुगुणकारणशक्तिकल्पनात् । तथा वियदादिष्वपि
परत्वादिसिद्धयुपयुक्तोपनायकतयैव तच्छक्तिक्लप्तेरित्यर्थः । अत्र
प्रतिबन्दिमभिप्रेत्याह – एवं हीति । नन्वधिकाया दिशस्ताव-
दर्थ (या) यैव धर्मग्राहकेण सिद्धिः ; न तथा वियदादेः ; तत्स्वरूप-
स्यान्यतस्सिद्धत्वादिति चोद्यं विपरीतफलमित्यभिप्रायेणाह-
धर्मीति । नावश्यं धर्मिग्राहकेणैव सर्वत्र शक्तिसिद्धिः ; गृहीतेष्वपि
धर्मिषु तत्तत्कार्यदर्शनेन तन्नियतशक्तिक्लप्तेः । अत एव
आनन्ददायिनी
 
1
 
-
 
तत इति—अविशेषादिति भावः । यथा कलमेति — अन्यथा अङ्कुरजनन-
शक्तिकल्पनाऽविशेषात् सर्वत्राङ्कुरजनकतापि स्यादिति भावः । अत्र
प्रतिबन्दिमभिप्रेत्येति — अतिरिक्तदिक्परिकल्पनापक्षेऽपि तस्यान्यधर्मो-
पनायकत्वेऽतिप्रसङ्गस्समान इति प्रतिबन्दि (न्दी) मित्यर्थः । प्रति-
बन्द्याः परिहारमाशङ्कते --- नन्विति । विपरीत फलम् —— अफलमित्यर्थः ।
तदेवोपपादयति—नावश्यमिति । धर्मिग्राहकमानेन सघर्मक सिद्धिर्भ-