This page has not been fully proofread.

530
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
परत्वापरत्वे । व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपा-
 
सर्वार्थसिद्धिः
 
तैरेवोपाधिभिरुपहितं व्योमाद्येव परत्वादिसिद्धौ पर्याप्तम् । अधि-
कशब्देन कल्पनागौरवं सूच्यते । नन्वाकाशः परिच्छिन्न इति
भवत्सिद्धान्तः । तथाच कथमाकाशरहितप्रदेशे दूरत्वादिक्लप्ति-
रित्यत्राह — व्योमेति । दूरत्वादिसिद्ध्यनुगुणोपाधिमाद्भर्महदा-
दिभिस्तत्सिद्धिः स्यात् । व्योमोत्तीर्ण इत्युपलक्षणम् ; व्योम-
संपृक्तद्रव्यादिभिरपि तदुपपत्तेः । अनियमेन बहूनां दिक्तकल्पने
गौरवं स्यादिति चेन्न; असिद्धकल्पनादनेकैरपि सिद्धैरेव निर्वा-
हस्य लघुत्वात् । यद्येकमेव सर्वत्र दिग्व्यवहारकारणमिष्यते
तदा सर्वव्यापिना सर्वहेतुभूतेन परमात्मनैव सर्वं सिध्येत्;
तस्यैव सन्तूपाधिभेदास्सहकारिणः अथवा तत्तदुपाधयस्ताव-
आनन्ददायिनी
 
इत्यर्थः । अधिकशब्देन -- मूलस्थाधिकशब्देन । व्योमसंपृक्तद्रव्या-
दिभिरिति—तत्संपृक्तप्रकृत्यादिभिरित्यर्थः । आदिशब्देन सत्वादीनां
संग्रहः । नेति–व्योमादिसम्भवस्थले व्योमादि तदुत्तीर्णस्थले तदन्यदिति
अनेककल्पने गौरवमित्यर्थः । असिद्धेति — असिद्धस्य धर्मिणः कल्पने
गौरवमिति भावः । नन्वेकं दिग्व्यवहारनिमित्तमेोषितव्यम् ; नानाभूते-
ष्वनुगतधर्माभावेनानुगतव्यवहारासम्भवादित्यत्राह - यद्येकमेवेति । तस्यै-
कत्वे कथं प्रागादिभेदः ? इत्यत्राह – अथवेति । यद्वा दिगुपाधीना-
मेवावश्यकत्वाद्दिग्व्यवहारहेतुत्वमस्तु न तदुपहितापेक्षेति पक्षान्तरमाह-
अथवेति । तेषामननुगतत्वेऽपि प्राच्यादिव्यवहाराणामननुगतत्वान्न