This page has not been fully proofread.

iv
 
तत्वमुक्ताकलापसर्वार्थसिद्धयोः प्रणेतुराचार्यस्य वेङ्कटनाथ इत्येव
पितृकृतं परिपूर्णाभिधेयं सुगृहीतं नाम ॥
 
निगमान्तगुरुः श्रुत्यञ्चलाचार्य इत्यादि तु बिरुदनाम्नो वेदान्ता-
चार्यपदस्य पर्यायतया शिष्यपरम्परया प्रवर्तितं प्रथितमास्ते ॥
 
वेदान्ताचार्य इति बिरुदलाभक्रमस्तु प्रसिद्धात्तदीयचरित्रादव-
गम्यते । 'तेन देवेन दत्तां वेदान्ताचार्यसंज्ञाम्' इति च आचार्योऽ-
प्यनुवदति अधिकरणसारावल्याम् ॥
 
श्रीमतो वेङ्कटनाथगुरोः पिता अनन्तसूरिः पितामहः पुण्ड-
रीकाक्षसूरिः । निबबन्ध च ग्रन्थादावाचार्यः
 
नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो
वैश्वामित्रस्य पात्रो विततमखविधेः पुण्डरीकाक्षसूरेः ।
 
इति । माता च तोतारम्बेति तच्छिष्यजननित्यानुसन्धेयात्-
यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ।
 
इति मङ्गलाशासनात् गुरुपरम्परयोपदेशाच्च ज्ञायते ॥
 
श्रीवेङ्कटनाथगुरोः सर्वविधगुरुर्मातुलश्च श्रीमान् घीवैभवासादित-
वेदान्तोदयनबिरुदः भगवतो भाष्यकारादुत्तरं मन्त्रार्थसम्प्रदायप्रवर्तकस्य
आत्रेयरामानुजाचार्यस्य पौत्रः श्रीमान् आत्रेयो रामानुजाचार्यः । इद
मप्यत्रैवाह गुरुः-
 
श्रुत्वा रामानुजाचार्यात्सदसदपि ततस्तत्वमुक्ताकलापं
व्यातानीद्वेङ्कटेशः ।
 
इति । परमगुरुश्च वात्स्यः श्रीमान् वरदाचार्य इत्यपि -
 
वरदगुरुकृपालम्भितोद्दामभूमा
 
इति पूर्वोक्तपद्यभागादवगम्यते ॥