This page has not been fully proofread.

सरः ]
 
अतिरिक्तदिक्तत्वकल्पकतया पराभिमतानामन्यथासिद्धिः 529
 
तत्वमुक्ताकलापः
 
दिभेदात् अस्यैवोपाधिभेदादधिकदिश इव स्तां
सर्वार्थसिद्धिः
 
वाधिकेऽनधिकेऽपि समाना । अप्रत्यक्षायां च दिशि प्रत्यक्ष-
रुपाधिभिरवच्छेदधीर्दुर्लभा । सूर्योदयादिविशेषितातपादिभिरेव
प्रागादिधीव्यवहारसिद्धौ किं तदन्यकल्पनया ? शाखाचन्द्रनया-
च्चातपादेः सूर्योदया (सूर्या) देश्व संवन्धधर्युज्येत । उपहितस्य
शब्दार्थत्वान्न दिक्शब्दस्य व्योमातपादिपर्यायता स्यात् । ननु
साक्षात्संबन्धरहित संयुक्तसंयोगभूयस्त्वाल्पत्वनिबन्धने दूरासन्नप-
रत्वापरत्वे तत्तत्संबन्धोपनायकव्यापक(सं) द्रव्ययोगमन्तरेण कथं
स्यातामित्यत्राह — अस्यैवेति । न हि त्वया कल्प्यमानमपि
दिक्तत्वं तदुपाधियोगमन्तरेण परत्वापरत्वे जनयेत् ; तथा सति
आनन्ददायिनी
 
सूर्योदयास्तमयादितस्तद्भेदक्लप्तिरवर्जनीयेत्यर्थः । अप्रत्यक्षायामिति ।
देहाद्यवच्छिन्नेश्वरस्योपाधिप्रत्यक्षमात्रेण प्रत्यक्षा ( क्षत्वा ) दर्शनाद्दिशोऽपि
नोपाधिप्रत्यक्षमात्रेण प्रत्यक्षतेत्यतिरिक्तदिक्पक्षेऽपि प्रागादिप्रत्यक्षव्यवहार
उपाधिमात्रविषय इति भावः । ननु आकाशस्याप्यस्मन्मते प्रत्यक्षतया
कथं प्राच्यादिबुद्धेरुपाध्यवच्छिन्नतद्विषयताऽस्त्वित्यत्राह - सूर्योदयादीति ।
शाखाचन्द्रेति । परम्परासम्बन्धधीरित्यर्थः । ननु व्योमादीनामेव दिक्ते
व्योमादिशब्दानां दिक्शब्दपर्यायता स्यादित्यत्राह - उपहितेति । परोक्त-
(पराभिहित) दिक्साधकोपपत्तिमनूद्य परिहरति--नन्वित्यादिना । नहि
त्वयेति । अतिप्रसङ्गादिति भावः । तथासतीति । उपाधिसापेक्षत्व
 
SARVARTHA.
 
34