This page has not been fully proofread.

सरः] नित्यत्वादिसाधकप्रत्येकहेतु निरासः श्रौतस्यानुमानेनबाधेऽनिष्टापत्तिः
 
तत्वमुक्ताकलापः
 
त्रानुमा स्यात् । बाधः सामान्यदृष्ट्या श्रुतिसम-
घिगते नैव कुत्रापि शक्यः तेनामूर्तत्वलिङ्गान्न
सर्वार्थसिद्धिः
 
पक्षीकारेण वा ? आकाशत्वाद्यवस्थापीकारेण वा ? आद्ये
सिद्धसाध्यता । द्वितीये तु स्वानभ्युपगतपक्षकारो न युक्तः ।
श्रुत्यैव तदङ्गीकारे तथैव वाधः । अनुमानेन श्रुतिबाधे तु हैतुक-
प्रलापैः श्रुतिप्रामाण्यस्य निश्शेषोच्छेदप्रसङ्गमभिप्रेत्याह-बाध
इति । प्रत्यक्षविरोधरहितानन्यपरश्रुत्या यथावदधिगतेऽथे येन-
केनचित्सामान्यतो दृष्टेन बाधशङ्कायां ' श्रौतहिंसा न धर्मः
हिंसात्वात् ' 'विगतमस्थि पवित्रं अस्थित्वात् शङ्खवत्' इत्या-
देरपि प्रसङ्गः स्यादिति भावः । उक्तं दूषणं प्रकृ ( प्रस्तु) ते पक्षे
साध्यान्तरविषयहेत्वन्तरेष्वपि दर्शयति - तेनेति । आकाशो न
आनन्ददायिनी
 
वायिकारणमेव नस्तीति ध्येयम् । द्वितीयेत्विति । तथाच परस्याश्रया-
सिद्धिरपि दोष इति भावः । ननु प्रसाध्याङ्गस्याप्यनुमानस्य संभवान्न
दोष इति चेन्मैवम्; अवस्थायाः प्रसाधनं नानुमानेन ; लिङ्गाद्य-
भावात् तथाच श्रुत्यैव वाच्यम् । तया जन्यत्वविनाशित्वबोधेनानित्य-
तयैव सिद्धेर्बाध इत्याह — श्रुत्यैवेति । ननु श्रुतेरेवानुमानतो बाधः
किं न स्यादित्यत्राह - अनुमानेनेति । निश्शेषोच्छेदप्रसङ्गमेव दर्शयति-
प्रत्यक्षेति । विगीतमिति । पवित्रत्वेन संदिग्ध नरास्थ्यादिकमित्यर्थः ।
साध्यान्तरविषयहेत्वन्तरं दर्शयति – आकाश इति । न स्पर्शवदिति ।
स्पर्शवतो वायोनोपादानमित्यर्थः । तेनामूर्तत्वलिङ्गान्न सृजति विमतो
 
-