This page has not been fully proofread.

526
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
न्तरावृतत्वादिवाक्यैश्च सिद्धम् । तेषु तद्विरुद्धसाधनमागमवाधित-
मित्यर्थः । उक्तेषु च हेतुपु निरवयवत्वं (त्वादिकं ) पञ्चीकरणवा-
(गत्वा) दिशास्त्रविरुद्धम् । सर्वदा स्पर्शरहितद्रव्यत्वादिति विभुत्व-
साधने अणुत्वेन श्रुति (त्वेनप्र) सिद्वैजीवैरनैकान्त्यम् । ज्ञानासम -
वायिसंयोगाधारत्वमात्ममनसोरसिद्धं च; ज्ञानद्रव्य (ज्ञाननित्य)-
त्वादोर्वक्ष्यमाणत्वात् ज्ञानावस्थानां त्वा (चा) त्ममनस्संयोगासम-
वायिकारणकत्वाभावात् । किंचात्र नित्यत्वसाधनमाकाशादिद्रव्य-
आनन्ददायिनी
 
'स्यैव विपक्षवाचकता यच्येत तर्ह्यनित्यत्वाभावे साध्ये इन्द्रियग्राह्य-
गुणत्वं न स्यादित्यापादनेन विपरिवृत्तिप्रसङ्गादिति विपरिवृत्तापादनस्यापि
सुवचत्वादित्यर्थः । सृष्ट्यादीत्यादिशब्देन प्रलयग्रह: । आवृतत्वादी-
त्यादिशब्देन प्रकृतेरप्युत्तरावधिपरिच्छिन्नत्वप्रतिपादकवाक्यसंग्रहः ।
स्वरूपासिद्धिदूषणमप्याह — उक्तेष्विति । निरवयवत्वे पञ्चीकरणायोगा-
दिति भावः । व्यभिचारमप्याह सर्वदेति । व्याप्यत्वासिद्धिं स्वरूपा -
सिद्धिं चाह - ज्ञानेति । ननु ज्ञानद्रव्यस्य नित्यत्वेऽपि तदवस्थानां च
जन्यत्वात्तदसमवायिकारणसंयोगाधारत्वं विवक्षितमिति नासिद्धिरित्याह-
ज्ञानावस्थानां त्विति । नन्वात्ममनस्संयोगस्य तदसमवायिकारणत्वा-
भावेऽपि ज्ञानद्रव्यमनस्संयोगोऽसमवायिकारणमस्तु ; तथा स एव हेतु:,
ज्ञानद्रव्यमेव दृष्टान्तोऽस्त्विति चेत्; आत्मज्ञानद्रव्यसंयोगो वा आवश्यक-
प्राणमनस्संयोगो वा असमवायिकारणमस्तु मनस्संयोगः कारणमित्यत्र
मानाभावात् । न च विनिगमकाभावात्सर्वेषां संयोगानामसमवायिकारणत्वं;
तथाच नासिद्धिरिति वाच्यम्; तर्हि व्यभिचारापातात् । इदं ज्ञानस्य
अनित्यत्वाङ्गीकारेऽपि समानम् । वस्तुतस्तु समवायिकारणाभावादसम-
 
;