This page has not been fully proofread.

सरः ] आकाशादिनित्यविभुत्वसाधनानुवादः हेतोरप्रयोजकता श्रुतिबाधश्च 525
 
तत्वमुक्ताकलापः
 
कः स्याद्वाधो विपक्षे कथमिव निगमे बाधकेऽ-
 
सर्वार्थसिद्धिः
 
सर्वदा निस्प (प ) न्दत्वे सति महत्त्वात् सर्वदा स्पर्शरहितद्रव्य-
त्वादित्यादयः । निरवयवेन्द्रियग्राह्यगुणत्वादित्याकाशस्यैव ;
ज्ञानासमवायिसंयोगाधारत्वादिति मनस एव ; ( एते) पां साधार-
णमप्रयोजकत्वमभिप्रेत्याह – कः स्यादिति । न ह्येतेषामनि-
त्यत्वादौ किंचिदनिष्टं स्यात् ! स्वाच्छन्द्येनानिष्टकल्पने विपरीत-
कल्पनस्यापि शक्यत्वात् । अक्षोभ्यं दूषणान्तरमाह- कथमि-
वेति । येष्वनित्यत्वमविभुत्वं च सृष्ट्यादिवाक्यै (दिवादै) स्तत्वा-
आनन्ददायिनी
 
परिमाणविशेषः ; तथाच परिमाणत्वमेव गुणादौ व्यभिचारवारकमिति
विशेष्यांशो व्यर्थ इति चेन्न ; महत्त्वस्य जातितया परिमाणत्वाघटित -
तया वैयक्तययोगात्; बहुत्वे साध्ये परमाणौ व्यभिचारवारकत्वाच्चेति
भावः । सर्वदेति । निस्स्पन्दत्वं क्रियारहितत्वम् । कदाचित्क्रियारहिते
घटादौ गुणादौ व्यभिचारवारणं विशेषणानां द्रष्टव्यम् । सर्वदेति ।
पूर्ववदेव विशेषणप्रयोजनं द्रष्टव्यम् । निरवयवेति । निरवयवेन्द्रियजन्य-
लौकिकप्रत्यक्षविषयगुणत्वादित्यर्थः । आकाशस्येति । आकाशपक्षकानु-
मानस्येत्यर्थः ; मनस्यसंभवादिति भावः । एवमुत्तरत्रापि । अप्रयोजकत्व-
मेवोपपादयति—न ह्येतेषामिति । ननु नित्यत्वाद्यनभ्युपगमे निरवयवत्वे
सति महत्त्वादिकं न स्यादिति विपक्षे बाध इत्यत्राह – स्वाच्छन्द्येनेति ।
'अप्रयोजकत्वेन तस्य प्रयोजकत्वाभाव उक्तः सत्यप्रयोजकव्यतिरेकापादन-