2025-01-21 07:47:15 by ambuda-bot
This page has not been fully proofread.
सरः] स्वमतेदोषाभावः, तादात्म्याभावानुभवः, प्रकारान्तरेणाभावत्वशङ्कानिरासः 523
सर्वार्थसिद्धिः
इति चेत्; सत्यम् ; तथाऽपि न तत्राकाशप्रतीतिविषया (प्रतीत्य-
विषयत्वादा) वरणाभावसिद्धिः । द्वितीये त्वावरणान्यद्रव्यमिदं
(मिदङ्कारास्पदं ) सिध्यत्येव । नन्वावरणाभाव एवेदङ्कारगृहीत
आवरणतादात्म्याभावाधिकरणतया बुध्यताम् ; न हि तत्तद-
भावयोस्तादात्म्यमिति ; मैवम् ; न ह्यावरणतादात्म्याभावस्या-
वरणान्यत्वं बुद्धा कश्चित्तत्र नभः पर्यायान् प्रयुङ्क्ते, निष्क्रमणादौ
वा प्रयतत इत्यलमतिविस्तरेण । 'आकाशे चाविशेषात् ' इति
सूत्रभाष्ये चैतत्सर्वमनुसन्धेयमिति ॥ ४६ ॥
आकाशस्यावरणाभावमात्रत्व भङ्गः.
आनन्ददायिनी
संभवादिति भावः । तथाऽपीति । तथा सति कुड्यादावावरणे
सत्यप्यावरणान्तरभेदसत्त्वात्तत्राकाशबुद्ध्यादि स्यादित्यर्थः । द्वितीय इति ।
आवरणप्रतियोगिकभेदाश्रयस्य (येषु) द्रव्यस्यावश्यकत्वे अन्तरिक्षे प्रदेशे
पृथिव्यादेरयोगादिदङ्काराश्रय आकाशस्सिद्ध इति भावः । ननु इदमावरणं
न भवतीत्यत्रेदमर्थोऽप्यावरणाभाव एव न भवतीति तादात्म्याभावो
भेदो नञर्थोऽपि स एवेति तादात्म्याभावास्पदत्वेन नाकाशसिद्धिरिति
शङ्कते - नन्विति । तादात्म्यप्रतियोगि काभावाश्रयो नावरणाभावे अभावा-
संभवादित्यत्राह-न हीति । अनन्यगत्या भावेऽप्यभावोऽभ्युपेत्य इत्यर्थः ।
आवरणतादात्म्याभावस्येति । तथा सति आकाशत्वमावरणान्योन्याभावत्वं
पर्यवस्यति । न च तज्ज्ञानादेवाकाशादिव्यवहारः; तथाच तदन्य आकाशा-
दिपदवेदनीयः सिध्यतीत्यर्थः । अत्यन्ताभावनाशावजननिः' इति
मूलस्यात्यन्ताभावश्च नाशो ध्वंसश्च अजननिः प्रागभावश्चेत्यर्थः ॥ ४६ ॥
'