2025-01-21 07:47:14 by ambuda-bot
This page has not been fully proofread.
520
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ता कलापे
[जडद्रव्य
सर्वार्थसिद्धिः
भाव (साधिकरणभूत) धीरनिवा (रपरिहा) र्या । खपुष्पवदावरणानाम-
त्यन्तासत्त्वे तु शून्यवादश्शरणम् । वर्तमानेषु चावरणेषु तत्प्रध्वंस-
प्रागभावौ दुर्वचौ । तौ हि किमन्यत्र विद्यमानानां उताविद्यमाना-
नाम् ? नाद्यः ; तेषां तदुभयायोगात् । न द्वितीयः ; तत एव; न
हि शशे शृङ्गस्य नाशप्रागभावौ ! तदिह सर्वावरणनाशादिकं दुर्व-
चम् ; असंभवात् । कतिपयावरणनाशादिकं चावरणदेशेऽप्यस्तीति
1
आनन्ददायिनी
त्यपेक्षा नास्त्येव ; तद्वदत्रापि स्यादित्यत्राह -- खपुष्पवदिति । तथाच
प्रतीयमानानामावरणानामत्यन्तासत्त्वे पदार्थमात्रस्यात्यन्तासत्ता स्यादिति
आवरणानां सत्त्वं वाच्यमेव ; तथा च सत्प्रतियोगि काभावप्रतीतौ अधि-
करणनियम इति भावः । यद्यपि ख (खे) पुष्पं नास्ति श (शे) शशृङ्गं
नास्तीति तत्रापि सत्प्रतियोगिकत्वमेव तथा अत्यन्तासत्त्वेऽपि तद-
भावप्रतीत्यभ्युपगमे अधिकरणधीनैयत्यमस्त्येव ; तथाप्यभ्युपगम्योक्त-
मिति ध्येयम् । दुर्वचत्वमेवोपपादयति - तौ हीति । अविद्यमानानां --
।
तुच्छानामित्यर्थः । तेषामिति – प्रतियोगिकाले ध्वंसप्रागभावयोर्विरोधा-
दित्यर्थः । तत एवेति । अविद्यमानत्वादेवेत्यर्थः । अविद्यमानत्वं तुच्छ-
त्वम् । प्रतियोगिनोऽसत्त्वेऽपि तौ भवेतामित्यत्राह - न हीति । शृङ्गस्य-
शशशृङ्गस्य । नन्वावरणन्यायेन तावभावौ (भावाभावौ ) भवेतां विरोधा-
भावादित्याशङ्कय यत्किंचिदावरणाभावो नाकाशं, अपि तु यावदावरणा-
भावसमूहः ; अन्यथा कुड्यादावपि यत्किंचिदावरणाभावसत्त्वात्तद्धी-
प्रसङ्गात् । तथा च यत्किंचिदावरणस्य सर्वकालेऽपि सत्त्वेन (विद्यमानतया)
तद्धुंसप्रागभावासम्भवात्तद्घटितयावदभावासंभव इत्याह-तदिति ।