This page has not been fully proofread.

सरः ] उपपत्त्यन्तरं, अध्यासान्तरदृष्टान्तनिरासः अभावान्तरत्वनिरासः
 
तत्वमुक्ताकलापः
 
519
 
अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव
 
न स्युः
 
सर्वार्थसिद्धिः
 
शेपेण ; संसर्गाभावस्तावन्निरूप्यमाण: (संसर्गिनिरूप्य) संसर्गप्रति-
योगिता अधिकरणप्रतियोगिभूतसंसर्गिवोधाभावे कथं बुध्येत ?
अत्यन्ताभावोऽपि संसर्गाभावभेद एव । यथा (च) अश्वे गोत्वस्य
शशे वा शृङ्गस्य । तथाच अत्रावरणं नास्तीति साधिकरणा (णभूता)
आनन्ददायिनी
 
जकम् ; अपि तु सत्त्वमात्रम् ; तच्च भूतभाविनोरस्त्येव प्रामाणिकत्वात् ।
तथा च न त्वदभिमतासत्त्वारोपः कुत्रापि ; इयांस्तु विशेषः -- भूत-
भाव्यधिकरणकभ्रमो न प्रत्यक्षः ; किं तु व्याप्तयादिज्ञानमूल इति ।
निरूप्यमाणः ज्ञायमानः । संसर्गिनिरूप्य : सबन्धिनिरूप्यः । अधि-
करणप्रतियोगीति –– तत्प्रतीतिनियतप्रतीतिक इत्यर्थः । तथाच अधि-
करणप्रतियोगिभिन्नो(प्रतियोगिनोः ) यस्संसर्गः तत्प्रतियोगिकतया (तत्म-
तीतिपूर्वकतया) अभावप्रतीतेस्तद्दुद्ध्यभावेऽभावबुद्धिर्न स्यादित्यर्थः ।
केचित्तु – प्रतियोग्यधिकरण संसर्गप्रतियोगिकत्वमेव संसर्गभावस्य ; तेनैव
विरोधात् । तत्प्रतियोगिकत्वमेव (तद्बलादेव ) घटादिप्रतियोगिकत्वमि (त्व-
व्यवहारइ )त्याहुः । सामान्यतो दूषणमुक्त्वा अत्यन्ताभावादिविकल्प-
मुखेन विशिष्य दूषणमाह अत्यन्ताभावोऽपीति । तथाच आकाश-
स्यात्यन्ताभावत्वे इहाकाशे तारकेति निरधिकरणाकाशधीर्न स्यादित्यर्थः ।
ननु खपुष्पं नास्तीति खपुष्पाभावप्रतीतौ प्रतियोग्यधिकरण संसर्गप्रती-
 
----