This page has not been fully proofread.

सरः] खादिपदविषयः आकाशाध्यासिकत्वनिरासः क्षणिकादिपदशक्तयायुपपत्तिः 517
 
सर्वार्थसिद्धिः
 
नीलं नम इति भातीति निरस्तम् ; आलोकदेशे (च) नभः प्रतीत्यनु-
वृत्तेः । ननु अस्मदिष्ट (ट) क्षणिकत्वादिकं क्वचित्ते सिद्धमसिद्धं वा ?
उभयथापि कथं तत्प्रतिक्षेपः । कथं वा तस्मिन् केपाश्चित्
सत्यताभ्रमं निर्वक्ष्यसि ? इत्थम् एतदुत्तरक्षणवृत्तित्वाभावो
हि यत्र कचिदन्यत्र सिद्ध: । स सर्वस्मिन् कुतश्चिदारोप्यते
प्रतिक्षिप्यते चेति सुस्थमेतत् । एवमन्यदपि सर्वं (अन्यत्सर्वमपि )
चिन्त्यम् । शशशृङ्गं तीक्ष्णमित्यादिषु च प्रमिते शशादौ शृङ्गव-
खारोपः शृङ्गादौ च प्रमिते सत्यासत्या (सत्यसति) वा तीक्ष्णधी:
इत्येताव (इत्यत ) त् सहृदयहृदयारूढम् । नात्रासति किञ्चिदा-
 
आनन्ददायिनी
 
लोके नीलं नभ इति प्रतीतेर्ना (सावा ) लोकाभावो विषय: इत्याह-
आलोकेति । ननु प्रमाणसिद्ध एव सत्ये (पदार्थ) पदानां व्युत्पत्तिः । तर्हि
क्षणिकादिशब्दानां व्युत्पत्तिग्रहो न स्यादिति शङ्कते – नन्विति
तथाच सत्येव
उभयथापीति---सिद्ध्यसिद्धिव्याघातादिति भावः ।
सत्यतारोपोऽस्मिंश्चासत्ये व्युत्पत्तिश्च वक्तव्येति भावः । नात्रासति
सत्यतारोपो नापि तत्र व्युत्पत्तिरित्यभिप्रायेण परिहरति-- इत्थमिति ।
उत्पत्तिकालिकघटानन्तरकालसत्त्वं मृत्पिण्डावस्थायां सदेव घटे आरो-
प्यते ; स्वोत्पत्तिक्षणानन्तरक्षणासत्त्वमेव स्वस्मिन् निषिध्यते ; तदन्यत्र
सदेवेति नानुपपत्तिरिति भावः । अन्यदपि --- अनिर्वचनीयत्वादिकमपी-
त्यर्थः । सत्याऽसत्या वेति-- प्रमितस्य शृङ्गस्य तैक्ष्ण्यवत्त्वे धियस्सत्यता;
तदभावे भान्तिरित्यर्थः । नात्रासतीति - तथाच व्योम्नोऽसत्त्वे तस्मिन्