This page has not been fully proofread.

516
 
सव्याख्यसवार्थसिद्धिसहिततत्व मुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
यैव च व्यवहारात् । खपुष्पादिषु त्वयोग्यसमभिव्याहारादन्य-
थाधीः । मृगतृष्णादिशब्दा अपि जलाभ्यासाधिकरणार्हमरीचि -
व्यूहविषयाः । यद्यपि तलत्वादिकमाकाशेऽध्यस्तम् ; अल्पत्व-
विपुलत्वा (स्वबहुत्वा) दिकं त्व (दिकं कचित्तत्तद) वच्छेदकभेदाय-
तम् ; तथाऽपि सत्येवारोपः । यच्चसति दुःखाभावे सुखा-
ध्यासो दृष्ट इति तदर्भकवाक्यम् । सत्येव दुःखाभावे सुखारोपात् ।
अभावस्य भावान्यत्वमात्रमेव ह्यसत्त्वं सिद्धम् ! तेन च स्वरूप-
(तेनचस्वरूपेण) सन्नैवासौ । आलोकाभावे नीलत्वाभ्यासस्त्वस्मान्
प्रति नोदाहर्तव्यः । अत एवाभ्यस्तनैल्यमालोका भाव मात्र मेव
आनन्ददायिनी
 
--
 
---
 
नच तयोरप्य (रपिपरस्वरा )भावत्वम् ; सामानाधिकरणण्यधीविरोधादिति
भावः । खपुष्पादिष्विति -- प्रामाणिक एवं व्युत्पन्नानां पुष्पादिश-
ब्दानां भ्रान्तिजनकत्वमित्यर्थः । नन्वस्तु खपुष्पादौ यौगिकत्वात्
प्रत्येकव्युत्पन्नानां समभिव्याहाराद्धीः । मृगतृष्णादिषु रूढमतिः कथमि-
त्यत्राह ——— मृगतृष्णादीति । तत्रापि मरीचिकाव्यूहस्य प्रमाणसिद्धत्वा-
दिति भावः । अल्पत्वेति – तथाच तदध्यासवचनं भ्रान्तिनिब-
न्धनमिति भावः। सत्त्वमेवोपपादयति---अभावस्येति । अस्मान् प्रतीति-
अन्धकारस्य नीलरूपाश्रयद्रव्यतयाऽस्माभिरङ्गीकारान्न तत्र रूपा-
ध्यास इत्यर्थः । ननु तदालोकाभावस्यापि प्रतीतस्तत्राध्यास इति
चेन्न; तत्प्रतीतावपि तस्य नीलतया प्रतीतौ मानाभावान्नील-
बुद्धेरन्धकारविषयत्वादिति भावः । अत एवेति -- आभावे आरो-
पाभावादित्यर्थः । वस्तुतस्तु मध्याह्नेऽपि वियति विसर्पति सौरा-