2025-01-21 07:47:03 by ambuda-bot
This page has not been fully proofread.
सरः] इहाकाशइतिप्रतीतेरबाधः परस्यानिष्टं व्योमादिशब्दानां प्रमानिबन्धनत्वम् 515
सर्वार्थसिद्धि
मूर्ते वस्तुनि आकाशसंवन्ध इति प्रतीतौ विरोधाभावात् । आवरणा-
भावधीरपि तथैव स्यादिति चेत्; अस्त्वेवम्; तथाऽपि कदाचि-
दिह तारकेतिवत् निरधिकरणग (णतयाग) (गणत्ववद्भ ) गनोपलम्भे
तदतिरिक्तनभस्सिद्धिनिषेधः । आवरणेषु निरवकाशत्वं च विशेषण-
राहित्यात् । आवरणरहितमेव ह्याकाशमन्यद्वा किश्चिदवकाशः ! न
त्वाकाशमात्रम् । आवरणेष्वविद्यमानतया तदभाव आकाश
इतिचायुक्तम् ; सर्वेषां स्वस्मिन्त्रविद्यमानतया स्वाभावत्वप्रसङ्गात् ।
यत्तु व्योमादिशब्दा व्यामोहक निबन्धना इति ; तदसत् ;
प्रमाणसिद्धे क्वचिद्वस्तुन्येव सर्वशब्दानां व्युत्पत्तेः । तद्विषयत-
आनन्ददायिनी
आवरणाभावेति---तत्रापि मूर्तवस्तुनि सम्बन्धधीस्स्यादित्यर्थः ।
तथापीति — यथेह तारकेति धीस्तथा कदाचिदाकाशे तारकेति धीः ।
तथा च आकाशस्याधिकरणप्रतीतिनियमाभावादभावात्मकत्वे तदयोगान्नि-
रधिकरणतया प्रतीयमानस्यावरणा (मानस्याकाशा) भावातिरिक्तत्वेन सिद्धौ
तदतिरिक्तनभोनिषेधस्सम्भवति त्वत्पक्षे तु न संभवतीत्यर्थः । नन्वा-
वरणाभावातिरिक्तत्वे आकाशस्य आवरणे सत्यपि सत्त्वात् तत्र तदभा-
( तदाकाशाभा ) वो न स्यात् तस्यैवाकाशत्वादित्युक्तत्वादित्यत्राह --
अवरणेष्विति । आकाश सत्त्वेऽपि नाकाशमात्रमवकाशः ; अपि तु आव-
रणाभावविशिष्टमि(ष्टम् ; तत्र विशिष्टं नास्ती ) त्यर्थः । सर्वेषामिति ननु
आवरणेष्वविद्यमानतयेत्यत्र आवरणेषु सत्सु अविद्यमानतयेत्यर्थः ।
तथाच न सर्वेषां स्वाभावत्वप्रसङ्गः; स्वस्मिन्नसत्त्वेऽपि स्वाधिकरणे
सत्त्वादिति चेत्; न; गोत्वाश्वत्वयोः परस्पराभावत्वप्रसङ्गात् । नच
भावान्तराभाववादे इष्टप्रसङ्गः इति चेन्न ; पीतत्वशङ्खत्वयोर्व्यभिचारात् ।
33*
-----