2025-01-21 07:47:02 by ambuda-bot
This page has not been fully proofread.
514
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
आकाशादेस्सा (देस्तद) धिकरणतयैवोपलम्भ इत्यनभ्युपगमात् ।
इहाकाश इतिवदित्यत्र चाकाशशब्देन आवरणाभावविवक्षायां
पक्षदृष्टान्तभेदाभावः ; त्वदनभ्युपगतस्य परमतसिद्धस्य त्वया
दृष्टान्तीकर्तुमयुक्तत्वात् । प्रतिवन्दिग्रहणमात्रमिदमिति चेन्न ; इह
आनन्ददायिनी
प्रतीतिरङ्गम् ; तथाच अभावात्पूर्वमेव प्रतीयमानस्याधिकरणस्य नाभाव -
तादात्म्यमिति तत्र प्रतीतिर्भेदसाधिकैवेति नोपचार इति । अन्ये तु -
इहाकाश इति बुद्धिराकाशैकदेशाधिकरणिका सामान्यविशेषाकारेण
तत्तदधिकरणिका वा (न) निर्वोढुं (दुम) शक्येति सम्भावितान्यथा-
सिद्धिकतया नाधिकरणान्तरसाधिका । इहावरणाभाव इति बुद्धिस्तु
स्वाधिकरणसाधिका । तत्र चाधिकरणमभावैकदेशः ? उतावरणैकदेश-
स्याभावः ? यद्वा आवरणाभाव एव ? पक्षत्रयेऽपि सर्वस्याधिकरणत्वेन
वर्णितस्याभावतया तस्याधिकरणसापेक्षतया
तद्बुद्धावनवस्थापातात्
अभावबुद्धिरेव न स्यात् । अभावेऽप्येकदेशादिकमनुपपन्नमित्याहुः ।
एके तु 'आकाशबुद्धिस्सर्वदा साधिकरणिकेति नियमो नास्ति;
अभावबुद्धिस्तु साधिकरणिकेति नान (नतावदन)वस्थेत्याहुः । एतद-
स्वरसादेव युक्तयन्तरमाह — इहाकाश इतिवदिति' इत्यप्याहुः ।
इहाकाश इति प्रतीतेरन्यथासिद्धयुपवर्णनायोक्ते 'इहाकाश इतिवत्
इति वाक्ये इत्यर्थः । अत्र किमाकाशशब्देन आवरणाभावो विवक्षितः
उत तदन्य इति विकल्प्य आद्यं दूषयति-- आवरणाभाव इति ।
द्वितीयं दूषयति-त्वदनभ्युपगतस्येति । उभयसंमतस्य पक्षत्वं वाच्य-
मिति भावः । प्रतिबन्दीति – तथाच न दृष्टान्तासिद्धिर्दूषणमिति भावः ।