This page has not been fully proofread.

सरः ] तुच्छत्वस्वरूपनिरासः आवरणेष्वाकाशास्तित्वं तद्धियोनन्यथासिद्धता च 513
 
सर्वार्थसिद्धिः
 
हितत्वात् । अत एव तत्र नास्तीति न निश्चाय्यम्) धयम् ।
भित्वा तु प्रेक्ष (क्ष्यमा ) णे नभस्तत्र दृश्यत एव । नचात्रावरणाभाव-
मात्रोपलम्भः ! इहावरणं नास्तीति साधिकरणस्य तस्योपलम्भात् ।
इहाकाश इतिवत् स्वात्मन्येव भेदोपचारात्स्यादिति चेन्न ;
बाधकाभावात् । अधिकरणानवस्थाप्रसङ्गो वाधक इति चेन्न;
आनन्ददायिनी
 
दुर्दर्शत्वमुपपद्यत इति कथं तस्य साधन (क) त्वम् ? इत्यत्राह - अत एवेति ।
कुड्यादौ दुर्दर्शदशायामाकाशमत्रास्ति न वेति सन्देहस्य दर्शनादभा-
वत्वे प्रतियोगिनिश्चयेन सन्देहो न स्यादिति भावः । तथा च आकाशो
नावरणाभावः आवरणवत्तया निश्चयसमानकालीनतदधिकरण धर्मिक-
संशयविषयत्वात् ; यत् यद्वत्तया निर्णयसमकालीनतदधिकरण संशय-
विषयः स न तदभावः यथा रूपस्य रस इत्यनुमानमावरणाभावस्य
आकाशाभावाद्भेदे प्रमाणमिति ध्येयम् । प्रत्यक्षमपि प्रमाणयति —
नभस्तत्रेत्यादिना । अन्यथासिद्धिमाशङ्कते -- इहाकाश इति । बाधका-
भावादिति — अन्यथा भूतले घट इत्यादावुप (वप्युप) चारप्रसङ्ग इति
भावः । अधिकरणानवस्थेति तथा सति आकाशस्याप्यधिकरणं
तस्याप्यधिकरणान्तरं तस्यापीत्यनवस्थेत्यर्थः । ननु मास्तु साधिकरण-
तयोपलम्भनियमः ; साधिकरणतयोपलम्भमात्रमधिकरणसाधकं स्यात् ;
नच नियमोsपि साधककोटौ प्रविष्टोऽप्रयोजकत्वात्; अन्यथा घटादी-
नामप्यधिकरणासिद्धिप्रसङ्गात् इति चेत्; अत्राहुः --- इहाकाश इति
व्यपदेश मात्र मुपदेशमात्रादपि भवति ; नचावरणाभावादपि तथा; अभा-
वस्याधिकरणसापेक्षत्वात् तत्र नोपचारः । किञ्चाभावप्रतीतावधिकरण-
 
SARVARTHA.
 
33