This page has not been fully proofread.

512
 
सव्याख्यसर्वार्थसिद्धिंसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
प्रसङ्गात् । उक्तं च न्यायभाष्ये --' असच्चासदिति गृह्यमाणं
तथाभूत (तं विद्यमान)मविपरीतं तत्वम्' इति । तुच्छतयैवोप-
लब्ध्या (ब्धस्या) पि निरस्तं निस्स्वभावत्वम् । तुच्छता भाव-
प्रतियोगित्वं अभावत्वं वस्त्वन्तरशून्यत्वं अन्यद्वा किञ्चित् ?
न प्रथमः ; स्त्रकालादिषु सतामभावप्रतियोगिनां यथाप्रमाणं
ततत्स्वभावविशिष्टत्वात् । न द्वितीयः ; दत्तोत्तरत्वात् । न
तृतीयः ; ईदृशतुच्छत्वस्य स्वरूपाविरोधिनः सर्वत्र सुलभत्वात् ।
न चतुर्थः ; अस्मन्मतविरोधिनस्त्वदिष्टस्य कस्यचित् कुत्र-
चिदत्रासिद्धेरिति । यत्तु — आवरणेष्वाकाशो नास्तीति ; तद-
सत्; त्वदुक्तयुक्तयेव तत्सिद्धेः । अभित्त्वा दुर्दर्शत्वं हि व्यव-
 
आनन्ददायिनी
 
इति भावः । असच्चेति । अभावत्वेन गृह्यमाणं तथाभूतं अविपरीतं च
तत्वं तादृशस्वभावं वस्तु न निस्स्वभावमित्यर्थः । तत्र किं तुच्छमेव
निस्स्वभावत्वम् उत तदन्यन्निस्स्वभावत्वम्, इति विकल्प प्रथमस्य
सिद्धसाधनग्रासात् द्वितीयं विकल्प्य प्रथमं दूषयति न प्रथम इति ।
स्वकालादिषु तत्तत्स्वभाववदभावप्रतियोगिषु व्यभिचार इति भावः ।
दत्तोत्तरत्वादिति । अभावस्वभावतयैवेत्यनेनेत्यर्थः । ईदृशेति । सिद्ध-
साधनमिति भावः । न चतुर्थ इति । (तत्) किमस्मन्मताविरोधि उता-
विरोधि, इति विकल्पमभिप्रेत्य आधे तन्न बाधकमिति, द्वितीये (त्व) सिद्धि:,
तादृशस्य त्वदिष्टस्य निस्स्वभावत्वसाधकस्य कस्यचित् तुच्छपदा (शब्दा)
ख्यस्य कुतश्चिदपि प्रमाणादसिद्धेरित्यर्थः । यत्तु —- आकाशम्यावरणा-
भावत्वसाधनार्थं उपलम्भानुपलम्भोप (सदनं ) न्यसनम् ; तद्दूषयितुमनुभा-
षते ——यत्त्विति । तात्सद्धिमेवोपपादयति — अभित्त्वेति । नन्वभावेऽपि