2025-01-21 07:46:58 by ambuda-bot
This page has not been fully proofread.
सरः]
चार्वाकाद्यभिहिताया अभावनिस्स्वभावताया निराकरणम्
511
तत्वमुक्ताकलापः
सद्रूपेणैव भानान्न (बोधान्न) भवति वरणाभाव-
मात्रं विहायः
-
सर्वार्थसिद्धिः
वस्तुशून्यो विकल्पः' इति, 'एष वन्ध्यासुतो याति' इत्यादि
च (पु) । अतो नास्त्येव नभ इति तत्राह – सद्रूपेणेति । अयं
भावः – सर्वं हि वस्तुजातं संविद्व्यवस्थाप्यम् ! संविद्यते च
भावरूपतयैव नभः । भावान्तरमेवाभाव इति स्थापयिष्यते ।
अन्यथाऽपि ब्रूमः – नाभावस्य निस्स्वभावता ; अभाव स्वभावत-
यैव तत्सिद्धेः । स्वान्यस्वभावतया सिद्धिस्तु न कस्यापि ।
न च स्वेन स्वभावेन सिद्धस्य परस्वभावविरहादसत्त्वम् ! अति-
आनन्ददायिनी
इति न्यायादिति भावः । तदुदाहरति — एष इति । आदिशब्देन
'शशशृङ्गधनुर्धरः' इत्यादिवाक्यशेषसंग्रहः । ननु नञपश्लेषाभावमात्रेण
सद्रूपेण प्रतीतावपि तलत्वादिवत् शशशृङ्गादिवच्च तुच्छता स्यादि-
त्युक्तस्य नोत्तरमित्यत्राह अयं भाव इति । ननु भावरूपत्वाभवा-
तद्रूपतया भानं भ्रम इति चेत्; तत्राह - भावान्तरमिति । तथाच
अभावत्वे (बुद्धेऽपि भावत्वबुद्धेर्न भ्रमत्वमिति भावः । अन्यथाऽ-
पीति—भावादभावस्यान्यत्वेऽपीत्यर्थः । यदुक्तमाकाशस्यावरणाभावत्वा-
न्निस्स्वभावत्वामेति ; तदयुक्तमित्यत्राह - नाभावस्येति । नन्वभाव
(स्वभाव) त्वेपि भावस्वभावत्वाभावान्निस्स्वभावतेति चेत्; तत्राह -
स्वान्येति । घटादीनामपि स्वान्यपटादिस्वभावत्वाभावान्निस्स्वभावतापात