2025-01-21 07:46:58 by ambuda-bot
This page has not been fully proofread.
510
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
[जडद्रव्य
सर्वार्थसिद्धिः
वत् मिथ्याजले मृगतृष्णिकादिशब्दवच्च व्यामोहकनिबन्धना
व्योमादिशब्दाः । अत्र ननुपश्लेपाभावादसद्रूपतातिरस्कारः ।
अत्र च तलत्वविपुलत्वमलिनत्वादिकमध्यासमन्तरेण न कथ-
ञ्चिदप्युपपद्यते । प्रतियोगिगतानां च स्मर्यमाणानां गृह्यमाण-
स्मिन्नध्यासः । अस्ति चा (असति चा ) ( नचा) सौ सिद्ध:
दुःखाभावे सुखाभिमानात् आलोकाभावे नीलत्ववह (शब) लत्वा-
द्यध्यासस्य वैशेषिकादिभिरङ्गीकारात् शशशृङ्गं तीक्ष्णमि-
त्यादिशब्दजन्याध्यासदृष्टश्व । वदन्ति च - ' शब्दज्ञानानुपाती
आनन्ददायिनी
----
तुच्छता घटाभावस्य तुच्छत्वाभावात् तुच्छत्वे च सप्रतियोगि-
कत्वायोगा (त्वाभावा) दिति चेन्न ; तन्मते चतुर्धातुव्यतिरिक्तस्य
तुच्छत्वात् । आवरणाभावत्वाक्तिः तस्य भावत्वनिरा(निरासार्था)-
सपरा, न तु नैयायिकादिवत्पारमार्थिकाभावपरा । तुच्छवेच
सप्रतियोगिकत्वमविरुद्धम् । असतोऽत्यन्ताभाव इति मते तुच्छस्या-
भावप्रतियोगित्ववत् केवलान्वय्यभाववच्चे (वदि ) ति ध्येयम् । ननु तर्हि
अभावरूपतया पदात्प्रतीनिस्स्यादित्यत्राह - अत्रेति । सद्रूपता भ्रान्ति-
रित्यर्थः । नञ एवासत्त्वबोधकत्वादिति भावः । नन्वारोपे बाघनियमात्
तदभावे कथमारोपरूपत्व(रूपवत्त्व) मित्यत्राह -तलत्वविपुलत्वादिकमिति ।
प्रत्यक्षबाधाभावेऽपि यौक्तिकबाधोऽस्त्येवेति भावः । नन्वभावे(नभसि)
कथं भावधर्माध्यास इत्यत्राह —— अस्ति चासाविति । वदन्तीति । बौद्धा
इति शेषः । शब्दज्ञानानुपाती - शब्दज्ञानस्य शब्दश्रवणस्य आनुपाती
अनन्तरभावी–वस्तुशून्यः शून्यवस्तुविषयकः — विकल्पः सवि-
कल्पक इत्यर्थः । ' अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि '
--
l