2025-01-21 07:46:57 by ambuda-bot
This page has not been fully proofread.
सरः]सिद्धादीनांभूम्यादावुन्मज्जनोपपत्तिः, नभसः पराभिमतावरणाभावरूपतोक्तिश्च 509
तत्वमुक्ता कलापः
वाज्जल इव कथितो (कठिने ) युज्यते मज्जनादिः ॥ ४५
सर्वार्थसिद्धिः
भूम्यादिषु प्रवेशप्रतिघात एव नास्तीति मन्यन्ते, काचादिषु
नीरन्ध्रेषु नयनप्रभादेरिवेति ॥ ४५ ॥
अवकाशनिरूपणम्.
अत्र केचिच्चार्वाकास्सौगताश्च प्राहुः - ' चत्वार्येव भू-
तानि । आकाशस्त्वावरणाभा (व एव ) वः । स च निस्स्वभावः ;
तुच्छतयैवोपलम्भात् । य (त्र चा ) त्रावरणं न तत्राकाशः ;
अभित्त्वा दुर्दर्शत्वात् । भेदे त्वावरणाभावस्यैव सिद्धेः। यदि
(च) तत्राकाशस्स्यात् निरवकाशं न किञ्चित्स्यात् । अतो
घटतदभावन्यायादावरणेष्वसत्त्वादयमावरणाभावः । तदिह शून्य-
धातुसंज्ञिते च निस्तत्वेऽप्यावरणाभावे खपुष्पादिषु तत्तच्छब्द-
आनन्ददायिनी
।
आक्षेपसंगतिं दर्शयति----अत्र केचिदिति । तुच्छतयेति । शून्यत-
येत्यर्थः । आवरणाभावत्वे युक्तिमाह-- यत्रावरणमिति । अभित्त्वेति
आवरणे सत्यनुपलम्भादावरणाभावस्यैवावकाशत्वादिति भावः । घटतद-
भावन्यायादिति । विरोधित्वादपि आकाशावरणयोर्भावाभावरूपतेत्यर्थः ।
नन्वाकाशस्य शून्यत्वे तत्राकाशादिशब्दानां व्युत्पत्तिग्रहो न स्यात् ;
सर्वत्र सत्ये (सत्य ए) व व्युत्पत्तिग्रह इत्यत्राह -- तदिहेति । भ्रान्ति-
सिद्धेषु खपुष्पादिशब्दव्युत्पत्तिग्रहवत् भ्रान्तिसिद्धे तस्मिन् तच्छब्दस्य
तद्गुह इत्यर्थः । नन्वारणाभावरूपत्वमेवाशङ्कितम् ; न च तथात्वे
----