This page has not been fully proofread.

508
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
प्राच्यतत्वेष्विव स्यात् । इत्यैदम्पर्यमूह्यं; न यदि
कथमिवान्येषु लभ्योऽवकाश: ? सिद्धादेस्स्वप्रभा -
 
सर्वार्थसिद्धिः
 
;
 
मस्तीति भावः । आकाश एव तर्हि अवकाशस्स्यादित्यत्राह-
न यदीति । अस्पर्शत्वाविशेषात् महदादिप्रदेशानामप्यवकाशत्वं
ग्राम् । ननु स्पर्शवतां मिथः प्रतिघातकत्वनियमो नास्ति
भूमावुन्मज्जति निमज्जतीत्यादिसिद्धप्रतिपादनादित्यत्राह-
सिद्धादेरिति । अनेन जन्मौपधिमन्त्रतपस्समाधिभूतसिद्धिमतां
तत्तदुपष्टब्धानां च संग्रहः । जलदृष्टान्तेन विभज्य प्रवेशनं
पुनश्शीघ्रसंभेदश्व सूच्यते । केचित्तु — सिद्धादीनां प्रभावविशेषेण
 
आनन्ददायिनी
 
आकाश एव तर्हीति । आकाशाभावस्थलेऽप्यवकाशसत्त्वान्नाकाशस्या-
वकाशत्वम् । अप्रतिघातकत्वमात्रेणाकाशस्य तत्त्वे महदादीनामपि
तथात्वात्तत्त्वप्रसङ्गादि (ङ्ग इ ) ति भावः । ननु ---
 
सिद्धयोगस्तदा (था) भूमावुन्मज्जति निमज्जति ।
 
इति योगरहस्यादावुक्तेः स्पर्शवव्यस्यापि प्रतिघातकत्वनियमो नास्ती
त्याशङ्कय परिहरति---- ननु स्पर्शवतामिति । तदुष्टब्धानामिति ।
तादृशोपष्टम्भवतां (हृगौषधवतां) तदनुगृहीतानां चेत्यर्थः । विभाग-
सम्भेदौ विनैव विवक्षा (पक्षान्तरमाह — केचित्त्विति ॥ ४५ ॥
 
अवकाशनिरूपणम्.