2025-01-21 07:46:51 by ambuda-bot
This page has not been fully proofread.
सरः ]
आकाशदेयावकाशाख्यद्रव्यान्तरनिरासः
तत्व मुक्ताकलापः
507
यताकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र
याऽसावन्योन्य (न्यं) स्पर्शभाजां विहतिरिह न सा
सर्वार्थसिद्धिः
ननु शरीरादिष्वाकाशोऽवकाशदानेन उपकरोतीति तत्त-
च्छास्त्रसिद्धम् । अतोऽस्य निष्क्रमणादिलिङ्गत्वं ग्राह्यम् ; तदि-
दमनुभाषते —- यत्विति । शास्त्राभिप्रेतमस्योपकारकत्वं शिक्ष
यति—तत्रेति । पृथिव्यादिचतुष्कस्येव स्पर्शवत्प्रतिघातित्वमा-
काशस्य नास्ति, तत्पूर्वेषामिवाहङ्कारादितत्वानाम् । अतः प्राणि-
संचारादिप्रतिघातकत्वाभावादस्योपकारकत्वकथनमिति तात्पर्यं
निपुणनिरूपणीयम् । न ह्याकाशेन देयमवकाशाख्यं द्रव्यान्तर-
आनन्ददायिनी
पूर्वाक्षेपेण संगतिमाह – नन्विति । शास्त्रेति ।
-
I
शरीरेष्ववकाशं च नभः कुर्यात्तथा परः ।
इति शास्त्रसिद्धमित्यर्थः । अतोऽस्य निष्क्रमणादीति । ( ननु ) आकाशस्य
शास्त्रसिद्धत्वात् कथं निष्क्रमणादिलिङ्गत्वमिति चेत्; न; निष्क्रमणा-
दिलिङ्गत्वं निष्क्रमणादिकारणत्वमेवेत्यर्थः । पृथिव्यादीति । तथा च
प्रतिघातकत्वाभावमात्रान्न तद्धेतुत्वमित्यर्थः । नन्ववकाशाख्यस्य कस्य-
चिद्रव्यस्य तद्धेतुत्वे तद्वारा तद्धेतुत्वमाकाशस्यास्तु इत्याह-
न ह्याकाशेनेति । नन्ववकाश इत्याकाशादिदेयद्रव्यान्तरं माऽस्तु तथाऽपि
तस्य निष्क्रमणादिहेतुत्वमवश्यं वाच्यम् । तथाच आकाश एवावका-
शोऽस्तु तथा ( एवं ) च आकाशस्य निष्क्रमणलिङ्गकत्वं युक्तमित्यत्राह -