This page has not been fully proofread.

506
 
सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्का कलापः
 
नभसि यतो नास्ति कुड्यादिकेऽसौ रोधस्त्वावार-
कैश्चेत् तदभवनवशान्निष्क्रमादिश्च सिध्येत् ॥ ४४ ॥
सर्वार्थसिद्धिः
 
भावः । सहकारिवैकल्यात् कुड्यादिषु निष्क्रमणादिकार्य प्रतिरोध
इति शङ्कते —रोध इति । तुशब्द: केवलाकाशाद्विशेषद्योतकः ।
एवं सति निष्क्रमणादेरन्यथासिद्धया निर्मूलं नभःकल्पनमित्य-
भिप्रायेणाह — तदभवनेति । न हि निष्क्रमणादेराकाशं समवायि;
देहादिक्रियाया नभोनिष्टत्वाभावात् । नाप्यसमवायि ; द्रव्यस्य
तथात्वानभ्युपगमात् समवायिकारणप्रत्यासन्नत्वायोगाच्च ।
निमित्तं तु ईश्वराद्यतिरिक्तमपूर्वमिह नापेक्ष्यमिति भावः ॥ ४४ ॥
 
आकाशानुमेयत्वभङ्गः
 
आनन्ददायिनी
 
.
 
दिकं स्यादित्यपसिद्धान्त इत्यर्थः । सच्छिद्रत्वाभावप्रसङ्गादिति
क्वचित्पाठः । तदा तस्य सरन्ध्रकुड्या देराकाशात्मकच्छिद्रवत्त्वं न
स्यादित्यर्थः । सहकारीति । कुड्यस्य प्रतिबन्धकतया तदभावोऽपि
कारणमित्यर्थः । अन्यथासिद्धयेति । अपेक्षणीयकुड्या भावेनेत्यर्थः ।
(ननु)कुड्याद्यभावस्य निमित्तत्वेऽपि समवायादिसापेक्षतया तत्सिद्धिरित्य-
त्राह---नहीति । अथवा तदेवोपपादयति - न हीति ॥ ४४ ॥
 
आकाशानुमेयत्वभङ्गः.