2025-01-21 07:46:52 by ambuda-bot
This page has not been fully proofread.
सरः] आकाशस्यानुमानिकत्वखण्डनं, निष्क्रमणादेराकाशलिङ्गतानिरासश्च 505
तत्वमुक्ताकलापः
मातुं स्वेच्छातः पारिशेष्य (ष्यात्) क्रम इह कथि-
तोऽतिप्रसङ्गादिदुस्थः । निष्क्रान्त्यादर्न तद्धीः सति
सर्वार्थसिद्धिः
दिभिः पृथिव्याद्यतिरिक्तस्पर्शाधार (कल्पन) प्रसङ्गाच्च । तदेत-
दभिप्रेत्याह – स्वेच्छात इति । आदिशब्देन विपरीतप्रसङ्ग-
सङ्ग्रहः । ' निष्क्रमणं प्रवेशनमित्याकाशलिङ्गम्' इति परोक्तं
प्रतिवक्ति — निष्क्रान्त्यादेरिति । उपपादयति — सतीति । यत्रा-
काशस्तत्र सर्वत्र निष्क्रमणादिकं न सिध्यति; आकाशव्याप्ते
कुड्यादौ निष्क्रमणादेरशक्यत्वात् । न च कुड्यादिष्वाकाशो
नास्तीति वाच्यम्; तस्य सच्छिद्रत्व ( त्वाभाव ) प्रसङ्गादिति
आनन्ददायिनी
समवायादिग्रहणात् त्वगिन्द्रियेण घटत्वादिजातिपरिमाणग्रहणाद्व्याभिचार
इति चेन्न ; नीरूपेन्द्रियग्राह्यविशेषगुणत्वादित्यर्थत्वात् । आदि-
शब्देन रसगन्धौ न पृथिवीजलाश्रितौ द्रव्यग्राह केन्द्रियग्राह्यगुणत्वात्
अचक्षुरिन्द्रियग्राह्यत्वात् शब्दवत् रूपं न पृथिव्याद्याश्रितं द्रव्य-
ग्राहकेन्द्रियग्राह्यविशेषगुणत्वात् ज्ञानवत् इत्यादयो गृह्यन्ते । तदेत-
दभिप्रेत्याह--- स्वेच्छात इति । विपरीतप्रसङ्गेति । शब्दो विभुधर्मो न
भवतीति प्रागुक्त इत्यर्थः । यद्वा शब्दः पृथिव्यादिचतुष्टयान्यतमा-
श्रयः बाह्येन्द्रियग्राह्यविशेषगुणत्वात् बहिरिन्द्रियव्यवस्थापकगुणत्वात्
इत्यादिप्रसङ्गः । निष्क्रमणमित्यादि । एतत्सूत्रेण गौतमोक्तमित्यर्थः ।
सच्छिद्रत्वेति तथा च तस्याकाशस्य सरन्ध्रतया सावयवत्वानित्यत्वा-