2025-01-21 07:46:51 by ambuda-bot
This page has not been fully proofread.
504
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
शब्दस्याधारभूतं कथमपि गगनं शक्यते नानु-
सर्वार्थसिद्धिः
अथाकाशस्यनुमानतस्सिद्धिं निराकरोति — शब्दस्येति ।
शब्दः क्वचिदाश्रितः गुणत्वादित्येतावता तावन्न पृथिव्याद्यति-
रिक्तशब्दाश्रयसिद्धिः; सर्वस्य किञ्चिद्भावात् । परिशेषहेतूनां तु
विपक्षे बाधकाभावात् । न हि शब्दस्य पृथिव्याद्याश्रितत्वे किञ्चि-
दनिष्टं स्यात् । पुष्पादिगन्ध इतिवत् भेर्यादिशब्द इति सर्व-
लोकबुद्धयनुविधाने कल्पना च लघ्वी । शब्दो विभुगुणो न
भवति वाह्येन्द्रियग्राह्यगुणत्वादिति विपरीतपरिशेषस्यापि सुशक-
त्वात् । स्पर्शो न पृथिव्यादिधर्मः नीरूपेन्द्रियग्राद्यत्वादित्या-
आनन्ददायिनी
प्रासङ्गिकीं सङ्गतिमाह-आकाशस्येति । सर्वस्य किंञ्चिद्भावादिति ।
शब्दः क्वचिदाश्रित इत्यत्र किंशब्दार्थत्वादित्यर्थः । परिशेषेति । शब्द:
पृथिव्याद्याश्रितो न भवति श्रोत्रग्राह्यगुणत्वात् इत्यादिपरिशेषाणामित्यर्थः ।
विपक्षे बाधकाभावमेवाह न हीति । पृथिव्याद्यनाश्रितत्वसाधने सर्व-
लोकप्रतीतिमप्याह----पुष्पादीति । तथाच लोकप्रततिबाधकल्पना-
भावाल्लाघवं चेत्यर्थः । परिशेषानुमाने प्रतिपक्षमप्याह -- शब्द इति ।
ज्ञाने व्यभिचारवारणाय बाह्येति, गुणत्वादिति जातौ व्यभिचारवार-
णायेति प्रयोजनं द्रष्टव्यम् । आभासयोगक्षेमतामप्याह – स्पर्श इति ।
रूपादौ व्यभिचारवारणाय नीरूपेति । नीरूप ( परामर्श) शब्दात्मादिग्राह्य-
तया व्यभिचारवारणायेन्द्रियेति । ननु मनसा आत्मनिष्ठसत्ता (द्रव्यत्वादि)-
----