This page has not been fully proofread.

सरः]नभसोबहिरिन्द्रियग्राह्यत्वासंभवशङ्कापरिहारः, भाष्योक्तनभोरूपवत्त्वनिर्वाहश्च 503
 
तत्वमुक्ताकलापः
 
पञ्चीकारेण नैल्यं पटमलिनिमवद्भाषितं वोपकुर्यात् ॥
 
सर्वार्थसिद्धिः
 
वैभवात्स्यात् । यथा रूपरूपरूपसमवेतरूपैकार्थसमवेतानां
चाक्षुषत्वमविशिष्टमङ्गीक्रियते तथा रूपिद्रव्यसंवलितस्यापि क्वचि-
त्स्यात् । न चातिप्रसङ्गः; समचचत्वात् । न हि रूपिद्रव्यं रूपै-
कार्थसमवेतं वा सर्वं चक्षुर्ग्राह्यम् ! योग्यतानियमस्य दुर्लवत्वा-
दिति ; तदेतदभिप्रेत्याह – पञ्चीकारेणेति ॥ ४३॥
 
आकाशस्य प्रत्यक्षत्वम्.
 
आनन्ददायिनी
 
वायोरपि चाक्षुषत्वप्रसङ्गः; तन्निष्ठरूपस्यानुद्भूतत्वात् । उद्भूतरूपवत
एव प्रत्यक्षत्वात् । नचैवमपि ' अद्यजातस्य चक्षुरपि न ह्यरूपं वायुं
गृह्णाति' इति प्रमेयसंग्रहे रूपाभाववचनाद्विरोधः; तस्योद्भूतरूपाभाववत्पर-
त्वादित्याहुः । ननु रूपशून्यस्यान्यरूपमादाय चाक्षुषत्वेऽतिप्रसङ्ग
इत्यत्राह-यथेति । रूपसमवेतं रूपत्वादि । रूपैकार्थसमवेतं–परिमाणादि।
समानचर्चत्वमेवाह---नहीति । यद्यन्यरूपसंवलितस्य कस्यचित् बाह्य-
प्रत्यक्षत्वमापाद्यते तदा रूपैकार्थसमवायात्परिमाणादेश्चाक्षुषत्ववत् रस-
गुरुत्वादेरपि चाक्षुषत्वं स्यादित्यतिप्रसङ्गापादनं समानम्, तत्समाधानं
च समानमित्यर्थः । योग्यतानियमस्य - प्रत्यक्ष योग्यतानियमस्य ।
दुर्लङ्घत्वात् – उभयाभ्युपेयत्वात् ॥ ४३ ॥
 
आकाशस्य प्रत्यक्षत्वम्.