2025-01-21 07:46:46 by ambuda-bot
This page has not been fully proofread.
502
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
पत्तेः; अन्यथा कथम (न्य ) त्र त्वदुक्तमप्रत्यक्षत्वानुमानं जीवेत् ।
सर्वलोकप्रत्यक्षविरुद्धं च तत् । तथाऽपि तत्स्वीकारे बुद्धिव्यति-
रिक्ततया बाह्यार्थस्सर्वोप्यप्रत्यक्ष इति वदन् सौत्रान्तिक एव
समर्थस्स्यात् । तदेवं नीरूपस्यापि नभसश्चाक्षुपत्वं निर्व्याघातम् ।
भाष्ये त्वस्य पञ्चीकरणेन रूपवत्तया चाक्षुपत्वाविरोधवचनं
आनन्ददायिनी
मपि, गौरवादिति भावः । प्रतिवन्दिमाह--अन्यथेति । नन्वेवमपि म (त)-
दुक्तानुमानेन प्रतिरुद्धत्वात् प्रत्यक्षत्वसिद्धिरपि न स्यादित्यत्राह -
सर्वलोकेति । तथाच त्वदुक्तस्य बाधितत्वेन न्यूनबलत्वान्न प्रतिपक्षतेति
भावः । ननु चैत्यानुमानात्पीतप्रत्यक्षवाधवत् सर्वेषामाकाशप्रतीतेरेव
बाधोऽस्त्वित्यत्राह – तथाऽपीति । दोषमूलत्वनिर्णयात् पीतप्रत्यक्षं
न्यूनबलम्, इह तु न तथा ; तथाऽपि बाधोक्तौ सौत्रान्तिकपक्ष
एवाङ्गीकर्तुं शक्य इत्यर्थः । ननु नभसो रूपवत्त्वं भाष्य उक्तं ; कथ-
मत्र नीरूपत्वं सिद्धं कृत्वा प्रत्यक्षत्वसाधनम् अपसिद्धान्तात् इत्य-
त्राह - भाष्य इति । ननु कथं तस्य वैभवत्वमुक्तम् ; पञ्चीकरणेन रूप-
वत्त्वात् ? इति चेत्; अत्रोक्तं कैश्चित् – 'न चक्षुषा सन्मात्रं गृह्यते;
तस्य रूपरूपिरूपैकार्थसमवेतपदार्थग्राहित्वात्' इति भाष्ये साक्षाद्रपा-
श्रयस्यैव प्रत्यक्षत्वप्रतीतेः; अन्यथा संयुक्ताश्रयत्वादिसंबन्धेन सन्मात्र
स्यापि रूपवत्त्वात् तद्भाष्यानुसाराद्वै भवत्वमिति । अन्येतु - वैभवात्स्या-
दित्यस्य युक्तिवैभवादित्यर्थः । न च संयुक्ताश्रयत्व संबन्धेन रूपवतो ग्रहे
आत्मादेरपि ग्रहप्रसङ्गः पञ्चीकरणसंबन्धेन तद्वत्त्वस्य प्रयोजकत्वात् ।
यद्वा–पञ्चीकृतभूतव्य(सृष्ट्यादीनामेव (वा) तत्संबन्धेन तद्वत्त्वप्रयोजक-
त्वम् । अत एवान्यरूपमादाय शङ्खस्य पीतप्रत्यक्षविषयत्वम् । न च
- ।