This page has not been fully proofread.

सरः] नभसोऽत्यक्षत्वसाधनखण्डनम्, प्रतिप्रयोगेण वहिरिन्द्रियग्राह्यत्वसाधनं च 501
 
सर्वार्थसिद्धिः
 
बाह्येन्द्रियग्राह्यं वाह्यत्वे सति अस्मदाद्यपरोक्षधीविषयत्वात् अवि-
गीतवत् । नात्र हेतुरसिद्धः; परिशेषप्राप्तेः । न तावदत्रागमिकी
नभःप्रतीतिः; तदनभिज्ञानामपि सम्भवात् । नाप्यानुमानिकी;
सिद्धेऽपि तदनुमाने अनधिगततादृशानुमानानां नभःप्रतीतेः ।
तदेवमाकाशस्या (त्रा) नुमानादिविषयत्वायोगात् आवालपण्डित-
मनुभूयमानत्वाच्च तद्बुद्धिरपरोक्षेति सिद्धम् । ननु असिद्धस्य
I ।
सिद्धस्य वा नभसः प्रत्यक्षत्वसाधनम् ? नाद्यः ; अनुमानकथा-
बाह्यत्वात् । न द्वितीयः; अनुमानतस्तत्सिद्धेस्त्वदनभ्युपगमात् ।
प्रत्यक्षतस्तत्सिद्धेरस्मदनभ्युपगमादिति । मैवम् उभयसंमता-
दागमतोsपि तत्सि ( ध्येत् ) द्धेः । आस्तामागमः ; पृथिव्याद्यति-
रिक्तस्य नभः प्रतीतिविषयस्य कस्यचिदुभयसंमत्या पक्षीकारोप-
आनन्ददायिनी
 
1
 
वारणाय बाह्येति । हेतावप्यात्मादौ व्यभिचारवारणाय बाह्यत्वेति । परमाणौ
व्यभिचारवारणाय अस्मदादीति । पारिशेष्यमेवोपपादयति-न तावदि-
त्यादिना 1 नमः प्रतीतिरपरोक्षा स्मृत्यनुमितिशाब्दान्यत्वे सति
प्रतीतित्वात् संप्रतिपन्नवत् इति परिशेषानुमानं द्रष्टव्यम् । ननु नभः-
प्रतीतिसिद्धौ तस्याः पारिशेष्यादापरोक्ष्यं सिध्येत् त ( देव नास्ति ) स्या
एवासिद्धिः, इत्यत्राह-आबालेति । ननु नभसो बहिरिन्द्रिय (बहिः)
प्रत्यक्षत्वसाधनं न संभभवती (वति आश्रयासिद्धेरि) त्याशङ्कते - नन्विति ।
आबालपण्डितमनुभूयमानत्वाच्चेति नभस्सि (संभवत्सि) रुक्तत्वादियं शङ्का
न युक्ता, तथाऽपि तत्सिद्धि (प्रमाण) निरूपणे उभयसिद्ध ( संमत) प्रमाण-
सिद्धत्वाभावादाश्रयासिद्धिरि (द्धिमाशङ्कत इ ) ति द्रष्टव्यम् । आस्तामिति ।
उभयसंमतसिद्धिमत्त्वं पक्षताप्रयोजकम् ; न तु उभयसंमतप्रमाणसिद्धत्व-