2025-01-21 07:46:43 by ambuda-bot
This page has not been fully proofread.
500
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
अन्यत्त्वबाह्यम्। तस्मान्नाध्यक्षवेद्यं वियदिति यदि ;
न; प्रत्ययस्यापरोक्ष्यात्
सर्वार्थसिद्धिः
गुणाश्रयमपि नावगमयन्ति ; किं पुनर्द्रव्यान्तरमिति भावः ।
मानसप्रत्यक्षमिह दूरनिरस्तमित्याह - अन्यदिति । तुशब्दोऽत्रा -
त्यन्तासम्भवपरः । अवाह्यम् - आत्मतद्धर्मव्यतिरिक्तेषु न स्वात-
न्त्र्येण प्रवर्तत इत्यर्थः । सङ्कलितमाह — तस्मादिति । अस्म-
दादीति विशेषणीयम् । चोद्यस्य दत्तोत्तरत्वाभिप्रायेण प्रति-
वक्ति — नेति । अभिप्रेतं व्यनक्ति — प्रत्यस्येति । अयं भावः-
1
न रूपादिविरहाच्चाक्षुपत्वादिहानिः रूपादिप्रत्यक्ष (त्व) वत् यथा-
दर्शनं व्यवस्थोपपत्तेः । प्रतिप्रयोगश्च – विगीतं अस्मदादि-
आनन्ददायिनी
वारणाय विशेषणविशेष्ये । एवमुत्तरत्रापि द्रष्टव्यम् । मनो न बाह्यग्राहकं
भवतीत्यभिप्रायेणाह - अबाह्यमिति । ननु मनसः सर्वज्ञानहेतुत्वात्
कथं न बाह्यग्राहकत्वमित्यत्राह - स्वातन्त्र्येणेति । इन्द्रियान्तरादिसह-
कारितां विनेत्यर्थः । संकलितमिति -- संगृहीत (मर्थ)मित्यर्थः । योगि-
प्रत्यक्षवेद्यत्वाद्बाध इत्यत्राह - - अस्मदादीति । ननु प्रत्ययस्यापरोक्ष्यम-
सिद्धं : इन्द्रियग्राह्यत्वसंदेहे हि तस्यापि संदेह एवेति चेत्; तत्राह -
अयं भाव इति । विगीत मिति —— योगिबाह्येन्द्रियग्राह्यत्वेन (ह्यत्वमादाय)
सिद्धसाधनवारणायास्मदादीति । अन्तरिन्द्रियग्राह्यत्वमादाय सिद्धसाधन-