This page has not been fully proofread.

498
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
आधारोऽत्रातपादिदि भवति कथं तस्य चेहेति
बोधः ? तस्यांशैश्चेत् त्रयणौ तच्छिथिलगति
 
सर्वार्थसिद्धिः
 
तत्तद्देशविशेषतया सर्वलोकप्रत्यक्षसिद्धाः । आवरणाभावमात्रं तु
निरसिष्यते । पतत्रिणश्च पतनदेशतया नभः प्रत्यक्षयामः । तत्र
इहप्रत्ययस्यान्यथासिद्धिमाशङ्कते - आधार इति । इहेति प्रतीय-
मानत्वमात्रमिहाधारत्वम् । परिहरति — कथमिति । इह नभस्या-
तपादिरिति व्यतिरेकनिर्देशात् नातपादिरिहशब्दार्थस्स्यादिति
भावः । अत्रोदयनाद्युक्तमाशङ्कते - तस्यांशैरिति । आतपाद्यंशां-
स्तदाधारीकृत्येत्यर्थः । दूषयति यणाविति । परैः व्यणुका -
नां अप्रत्यक्षद्व्यणुकाश्रिततत्व स्वीकारात् अंशैरिहप्रतीतिनिर्वाहस्तत्र
कुण्ठित इत्यर्थः । मभूत्वांशैख्यणुकानामिहेति धीः, व्यणुकस-
मुदायमिति निर्दिश्य प्रत्येकं तदाधेयतयोपचर्यतामित्यत्र क्लिष्ट-
आनन्ददायिनी
 
भावमात्रत्वाद्रन्ध्रस्य न तत्प्रत्यक्षसाधकमित्यत्राह --आवरणाभावमात्र-
मिति । पतनदेशतयेति -- इह विहगः पततीति पतनाधारतयेत्यर्थः ।
नन्वातपादेः कथमाधारत्वम् ? वैरल्यात्; अन्यथा तत्र क्षिप्तपाषाणादेः
पतनाभावप्रसङ्गात् इत्यत्राह --- इहेति । कुण्ठित इति - द्व्यणुकानामिहेति
प्रत्यक्षविषयत्वासंभवादिति भावः । द्व्यणुकसमुदायातपादिष्वाकाश-
व्यवहारादर्शनात् प्रत्युत भेदव्यवहारात् तत्र विशेषस्यादृष्टचरत्वात्
 
--
 
/