This page has not been fully proofread.

सरः] बिरलावस्थितद्रव्यादैर्नभस्त्वनिरासः, नभसि चाक्षुषोपलम्भान्तरकथनं च 497
 
तत्वमुक्ता कलापः
 
कूपोऽसौ रन्ध्रमेतत् पतति खग इहेत्यादिधीश्चात्र
 
मानम् ।
 
सर्वार्थसिद्धिः
 
असंयोगाविशेषे मध्यदेशाल्पत्व भूयस्त्वग्रहणमन्तरेण का गतिः ?
दूरदूरतरादिस्थितिरिति चेत् ; तथाऽपि दूरासन्नदेशतया नभः
प्रत्यक्षमेव । दिशस्त्र देशत्वं स्यादिति चेन्न ; उपाध्यतिरेक-
ण्यामपि तस्यां प्रत्यक्षत्वस्य नभस्समानचचत्वात् । दीर्घेण
हस्वेन च स्प्रष्टुं योग्यत्वमेव दुरत्वमासन्नत्वं च ; अतो नात्र
प्रदेश बुद्ध्य क्षेति चेन्न; तयोस्तत्तत्स्वरूपत्वेऽतिप्रसङ्गात् । अति-
रेके तु देशविशेषस्थित्युपलम्भमन्तरेण तदसिद्धेः । अत्र चाक्षु-
पमेवोपलम्भान्तरमप्युदाहरति - कूपोऽसाविति । कूपरन्ध्रादयो हि
 
आनन्ददायिनी
 
अभावे भूयस्त्वाल्पत्वरूपतरतमभावानां स्वतोऽसंभवादिति भावः । ननु
संयोगरहितावयवानां दूरदूरतरादिस्थितिरेव संयोगाभावे तारतम्यमिति
शङ्कते दूरदूरतरादीति । ननु दिगेव तत्र देशः स्यादित्याशङ्कते -
दिश इति । तत्र किं दिगुपाधिरेव देशस्स्यात् उत तदतिरिक्ता दिगिति
विकल्पमभिप्रेत्य तत्राद्ये वियति चन्द्रातपादिवैरल्ये पृथिव्यादीनामुपाधी -
नामसंभवाद्दिगुपाधिर्देशो न संभवतीति मत्वा द्वितीयं दूषयति-
उपाध्यतिरेकिण्यामिति । रूपशून्यतया समानन्यायत्वादित्यर्थः ।
दीर्घेणेति—दण्डादिनेत्यर्थः । तयोरिति – तथाच देशविशेषज्ञानपूर्वक-
प्रतीत्या तदतिरिक्ततद्योग्यत्वेन किमिति भावः ।
 
-
 
1
 
नन्वावरणा-
 
SARVARTHA.
 
32