2025-01-21 07:46:42 by ambuda-bot
This page has not been fully proofread.
496
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
अरुणं नभ इत्यादिबुद्धेः । तत्राप्यरुणातपग्रहणमात्रमिति चेत्;
कस्तर्हि तत्र नभशब्दार्थ : ? न ह्यनेकार्थोऽयं शब्दः ; अनुवृत्त-
मनतिप्रसङ्ग च निमित्तं दुर्लभम् । पृथिव्यूर्ध्वत्वादेस्तथात्वा-
भावात् । चन्द्रिकादिविशेषानादरेण विरलावस्थितद्रव्यमात्रं नभ
इति चेन्न; वियति विरला चन्द्रिकेत्यादिपृथग्व्यपदेशात वैरल्य-
दर्शनमपि न प्रत्यक्षतामन्तरेण न घटते । तत्तन्मध्यप्रदेशानां
तैस्तैरस्पृष्टता हि विरलता । तथाच मध्यदेशभूतं नभः प्रत्य-
क्षम् । परस्परासंयोगमात्रं चैरल्यमिति चेन्न ; भिन्नकालेषु गुणा-
दिषु च विरलधीप्रसङ्गात् । वर्तमानानामासन्न देशस्थानां द्रव्या-
णामसंयोगो विरलतेति चेन्न ; चन्द्रिकादिष्वसंयुक्ततेजःकणाना-
मासन्नदेशतया नभस एव ग्राह्यत्वात् । विरलविरलतरादि बुद्धौ
आनन्ददायिनी
कार्थोऽयमिति । नन्वेकप्रवृत्तिनिमित्तत्वे न नानार्थत्वदोष इत्यत्राह-
अनुवृत्तमिति । पृथिव्यूर्ध्वत्वादेरिति । पक्षितरण्यादिगतत्वेनातिप्रसक्तस्य
प्रवृत्तिनिमित्तत्वायोगादित्यर्थः ; ननु विरलसंस्थानश्चन्द्रिकावयवसङ्घो
नभ शब्दार्थः । वियति विरला चन्द्रिकेत प्रतीतिस्तु वने वृक्षप्रतीति-
न्यायेन स्यादित्यत्राह — वैरल्यदर्शनमपीति । वैरल्यस्यैव नभश्शब्दार्थ-
पर्यवसानादिति भावः । ननु संयोगाभाव एव वैरल्यमिति न ( भाव-
रूप) नभस्सापेक्षत्वमिति शङ्कते — परस्परेति । भिन्नकालेष्विति ।
तत्र संयोगाभावस्य सत्त्वादिति भावः । चन्द्रिकादिष्वपि तत्रासन्नदेशः
पृथिव्यादिर्न भवतीति नभ एव स देशस्स्यादिति भावः । नन्वस्तु
देशस्तत्र नभः; तथाऽपि तद्गुहो मास्त्वित्यत्राह — विरलविरलतरेति ।