This page has not been fully proofread.

494
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
प्रत्यक्षं व्योम नीलं नभ इति हि मतिश्चक्षुषैवा-
 
सर्वार्थसिद्धिः
 
नित्यविभुत्वात्तदाश्रितत्वाद्वा श्रोत्रेण नित्यसंबन्ध इति वादस्तु
अद्रव्यसरे निरसिष्यते ॥ ४१ ॥
 
श्रोत्रवृत्ति शब्दाश्रयागमनपक्षौ
 
इन्द्रियचिन्तानन्तरं भूतचिन्ताप्राप्तौ प्रथममाकाशे चार्वाकै-
रपि संमन्तव्यं प्रमाणविशेषं पुरस्करोति — प्रत्यक्षमिति । कथमि-
त्यत्राह — नीलमिति । धूम्रादेरुपलक्षणमेतत् । आरोपितं नभसि
तलत्वादिवन्मलिनत्वादिकमिति चेत्; असावारोपश्चाक्षुपोऽन्यो
वा? आधे अधिष्ठानमपि चाक्षुषमेष्टव्यम्; अन्यथातिप्रसङ्गात् ।
द्वितीयस्त्वसंभवी निमीलिताक्षस्य तादृशारोपादृष्टेः । अत एव
आनन्ददायिनी
 
-
 
अवसरसंगतिं दर्शयति – इन्द्रियेति । भूतोत्पत्तिक्रमे आकाशस्य
प्राथम्यात् (प्राधान्यादाकाशस्य) तन्निरूपणे कर्तव्ये तत्र निरूपणस्य
लक्षणप्रमाणाधीनत्वात् धर्मिसाधकं प्रमाणमाहेत्यर्थः । चार्वाकैरपीति-
तस्य प्रत्यक्षमात्र(क्षेत्र) प्रमाणवादित्वादिति भावः । तलत्वं(कठिन)कार्य-
देशत्वम् । अन्यथेति----अधिष्ठानस्य चाक्षुषत्वाभावेऽपि चाक्षुषरूपाद्या-
रोपे ह्या (रोप) त्मादावपि तथाऽऽरोपप्रसङ्गादिति भावः । असंभवीति--
चक्षुर्व्यापारनिरपेक्षो न सम्भवतीत्यर्थः । तदवोपपादयति--निमीलितेति ।
अत एवेति - अचाक्षुषे चाक्षुषारोपासम्भवादित्यर्थः । किञ्च नीलधियो