This page has not been fully proofread.

सरः ] द्वितीयपक्षैदिगादिग्रहणोपपत्ति पक्षद्वयाक्षेपपरिहारौ मीमांसकनिरासश्च 493
 
सर्वार्थसिद्धिः
 
सदपि वा निष्कारणकम् ? सकारणमपि वा कारणान्तरसिद्धमिति ?
नाद्यः; सर्वलोकाविरोधात् । सामग्रीवैकल्यात्तु कदाचिद्दिगादि-
रहितधीः । न द्वितीयः ; आगन्तोर हेतुकत्वविरोधात् । न तृतीयः ;
आगमादेरत्रासंभवात् । भ्रान्त्या दिगादिधीरिति चेन्न ; प्रति-
पुरुषनियतदिगध्यास हेतु भूतधर्मविशेषग्रहाभावात् ; भावे वा तत
एव तत्तदनुमानोपपत्तेः । तद्वदेव च दिगादेरप्युपलम्भोपपत्तेः ।
न चावाधितांशे भ्रान्तिक्लप्तिर्युक्ता ! अतः प्रत्यक्षतोऽनुमान-
तो वाsत्र दिगादिग्रह इत्यन्यतरपक्षोऽनतिक्रमणीयः । शब्दस्य
आनन्ददायिनी
 
कस्य दिगादिग्राहकत्वे कदाचिदयं (ग्राहकेष्वयं) शब्द: कुत्रत्य इति
सन्देहो न स्यात् इत्यत्राह — सामग्रीति । दोषादिना लिङ्गादिप्रति-
सन्धानादि सहकारिवैकल्यादिति भावः । आगन्तोः—कार्यस्येत्यर्थः ।
आगमादिः — तद्बोधक श्रुत्यादिः । भ्रान्त्येति-भ्रान्तिः - दोषः तेनेत्यर्थः ।
यद्वा (केचित्तु) द्विद्रोणेन धान्यं क्रीणाति पञ्चकेन पशून् इत्यादिवत्
प्रकृत्यादित्वात्स्वार्थे तृतीया । तथाच दिगादिधीर्भ्रान्तिरित्यर्थः (इत्याहुः) ।
प्रतिनियतेति — सादृश्यज्ञानस्याध्यासकारणत्वादिति भावः । तद्वदेवेति-
प्रतिनियतधर्मवच्छ्रोत्रेणैव शब्दगतप्रतिनियतधर्मवद्दिगादिग्रहणोपपत्ते-
रित्यर्थः । एतच्च प्रथमपक्षानुसारेण ; किञ्च बाधकाभावादपि न भ्रान्ति-
रित्याह--नचाबाधितेति । ननु शब्दो नित्यो विभुः श्रोत्रेण सर्वदा
सम्बद्ध एव । यद्वा विभ्वाश्रितत्वादपि श्रोत्रेण सम्बद्ध एव; तथाच तद्-
ग्रहार्थं श्रोत्रवृतिशब्दागमनकल्पनाऽनर्थिकेत्यत्राह-शब्दस्येति ॥ ४१ ॥
श्रोत्रवृत्तिशब्दाश्रयागमनपक्षौ.