This page has not been fully proofread.

492
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
अनुमितिमप्याहुरस्मिन् दिगादेः ॥ ४१ ॥
 
सर्वार्थसिद्धिः
 
नन्वेवं दिगादिविशिष्टोपलम्भः कथमित्यत्राह - अनुमितिमिति ।
आदिशब्देन दूरासन्नत्वग्रहः दृष्टान्तप्रदर्शनं च ॥
यथा मयूरवीणादेशशब्दोऽयमिति गृह्यते ।
 
तथा प्राच्यादिजातोऽयमिति लिङ्गात्तथाविधात् ॥
तत्र यद्यपि शब्दस्य विशेषः कोऽपि दुर्वचः ।
तथाऽपि विदितस्तैस्तैः लिङ्गं स्यात्समतेष्विव ॥
नन्विमौ द्वावपि पक्षौ हाठिकौ; पूर्वत्र दिगादिषु श्रोत्रस्य
शक्तिकल्पनागौरवात् उत्तरत्र दुर्वचलिङ्गदर्शनक्लप्तेरिति ; हन्त !
एवं वदन् किं शब्दग्रहे दिगादिग्रहणमेव नास्तीति मन्यते ?
 
आनन्ददायिनी
 
(उत्पद्यत इत्यर्थः) स्सम्भवतीति भावः । नन्वस्मिन् पक्षेऽपि तत्तद्देश-
विशिष्टशब्दग्रहो न स्यादित्याशङ्कते —-नन्विति । ननु अस्मिन्पक्षे
मयूरवीणादिशब्दविशेषग्रहेऽपि सामर्थ्यं श्रोत्रस्य कल्प्यताम् तथाच
नायं दृष्टान्तः; अन्यथा तत्र तत्तत्प्रतिनियतविशेषस्याभावादानुमा-
निकत्वानुपपत्तेरित्यत्राह —— यद्यपीति । विशेषस्य शब्दे (दुर्वचत्वेऽपि )
दुरभिलपत्वेऽपि तैस्तैः पुरुषैर्विदितोनुभवसिद्धस्संमतेष्विव -- इक्षुक्षीरा-
दिमाधुर्येष्विव विशेषो लिङ्गं भवत्वित्यर्थः ; अन्यथा इक्षुक्षीरादि-
माधुर्येष्वपि विशेषो न स्यादिति भावः । हाठिकौ - हठात्सिद्धौ-
आपातसिद्धाविति यावत् । अध्यात्मादित्वाट्ठञ् । ननु शब्दग्राह-