This page has not been fully proofread.

सरः]
 
वृत्तिद्वारा श्रोत्र व्याप्तिपक्षः स्वारसिकं पक्षान्तरं च
 
491
 
तत्वमुक्ताकलापः
 
भेदात् श्रोत्रायातस्य तस्य ग्रहं
 
6
 
सर्वार्थसिद्धिः
 
प्रतिवातयोरतिदूरानतिदूरं च शब्दो गृह्यते । बहिरन्तगृहगतानां च
दूरस्थशब्दग्रहणे स्फुटास्फुटधीश्च । अतः श्रोत्रप्रदेशायात भूत-
धर्मस्य शब्दस्य ग्रहणम् । तस्यचायातत्वमाश्रयद्वारकम् ।
शब्दगन्धसूर्या लोकरत्नप्रभादयो धर्म्यतिवर्तिनो गतिमन्तश्च'.
इति आत्मसिद्धिवाक्ये शब्दशब्दो गन्धशब्दवदाश्रयलक्षकः ॥
गुहासौधादिसंक्षोभः प्रतिशब्दश्च जृम्भते ।
निस्साणादिप्रणादेन तदेतत्पक्षसंगतम् ॥
आनन्ददायिनी
 
शब्दो गृह्यते प्रतिवाते अनतिदूर एव गृह्यत इत्यर्थः । भूतधर्मस्येति-
शब्दस्य द्रव्यत्वं येऽभ्युपगच्छन्ति तन्मतमसंगतमिति भावः । ननु
तस्याद्रव्यत्वे कथमागमनमित्यत्राह -- तस्यचेति । सिद्धान्तविरोधं परि-
हरति— शब्दगन्धेति । गन्धस्य गुणत्वं सर्वसिद्धमिति भावः । शब्द-
शब्द इति — ननु गुणत्वे धर्म्यतिवर्तिन इति विरोध इति चेन्न ;
धर्मिशब्देन समुदायस्याभिधानात् तदेकदेशरूपाश्रयद्वारा तदतिवर्तित्वं
सम्भवतीति (समुदायरूपधर्म्यतिवर्तित्वस्य विवक्षितत्वादिति भावः ।
ननु आश्रयद्वारा शब्दस्य कर्ण (अन्य ) देशागमनं किमर्थं कल्प्यते ?
तावद्व्यापी शब्द एव प्रथममुत्पद्यतामित्यत्राह — गुहासौधादति ।
शब्दस्य तावद्देशव्यापिन उत्पत्तौ गुहासौघप्राकारादीनाम (रादिष्व )
भिघातरूपसंक्षोभा(भाभावात् ) त् प्रतिशब्दो नोपपद्यते शब्दाश्रयद्रव्य -
स्यागमनपक्षे तु तीव्रतरशब्दाश्रयद्रव्याभिघातेन गुहादौ प्रतिशब्द-