This page has not been fully proofread.

490
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
इत्येकेऽन्ये तु दूरान्तिकगतजनताशब्दधीकाल-
 
सर्वार्थसिद्धिः
 
नत्र प्राच्यादिप्रतिनियतं लिङ्गं दृश्यते ! नापि दुरासन्नत्वनि-
यतम् ! अतश्शब्दस्वरूप इव तदुत्पत्तिदेशविशेषेष्वपि श्रोत्रवृत्ते-
श्शक्तिः कार्यकल्प्या । आसचितारतम्यानुरोधेन विशदाविशदा-
वभासश्च चक्षुर्वृत्तिनयेन नेतव्यः । अत्र पक्षान्तरं स्थापयितुं
सांख्यानुसारिणां पक्षोऽयमिति निगमयति-— इत्येके इति ।
बुद्ध्यन्तरानुगुणमतान्तरमाह - अन्ये त्विति । दूरस्थः ताड्यमा-
नभेर्या दश (दूरस्थताड्यमानभेर्यादिदर्शी) कोणाभिघातात्पश्चात्
विलम्बेन शब्दं शृणोति वादकास्तदासन्नाश्चाविलम्बितम् ; तदेतत्
गन्धाश्रयद्रव्यविसर्पन्यायमन्तरेण कथं स्यात् ? अत एवानुवात -
आनन्ददायिनी
 
गुणस्य शब्दस्याहङ्कारिकेणेन्द्रियेण समवायायोगादित्यर्थः । श्रोत्रे-
णाग्रहणेऽप्यनुमानात्तद्गृह इत्यत्राह --- न ह्यत्रेति । दूरासन्नत्वनियतं --
दूरासन्नत्वव्याप्तम् । ननु श्रोत्रस्य वृत्त्यङ्गीकारेऽपि देशग्रहणासाम-
र्थ्यात् कथं तत्तद्देशविशिष्टशब्दग्रहः ? इत्यत्राह - अत इति । प्रका-

रान्तरेण तद्विशिष्टप्रतीत्यनिर्वाहादिति भावः । ननु तत्तच्छब्द देशव्यापि -
वृत्तिस्वीकारे दूरासन्नयोः शब्दग्रहतारतम्यानुपपत्तिरित्यत्राह – आस-
त्तितारतम्यानुरोधेनेति । ग्राह्यशब्दापेक्षया ग्राहकपुरुषस्येति शेषः ।
बुद्ध्यन्तरं —- दूरासन्नयोः क्रमेण बुद्धिरित्यर्थः । बुद्धयन्तरमेवोपपाद-
यति—दूरस्थस्ताड्यमानेति । गन्धाश्रयेति – तथाच शब्दाश्रयद्रव्यस्य
श्रवणदेशविसर्पः कल्पयत इति भावः । अत एवेति - अतिदूरोऽप्यनुवाते
 
-