2025-01-21 07:46:36 by ambuda-bot
This page has not been fully proofread.
सरः]
श्रोत्रवृत्तिकल्पनोपपत्तिः जैननैयायिकमतयोर्निरासश्च
489
तत्वमुक्ताकलापः
दिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधा-
नात् ।
सर्वार्थसिद्धिः
नापि शब्दस्यैवागमनम् ! बाह्यैकेन्द्रियग्राह्यतया श्रुत्यादिभिश्च
रूपादेरिवाद्रव्यस्य क्रियानुपपत्तेः । न च शब्दस्य तव्यञ्जकस्य
वा वीचीतरङ्गकल्पना ! अत्यन्तगौरवात् । न च व्याप्तं श्रोत्रम् !
युगपत्सार्वत्रिकशब्दोपलम्भप्रसङ्गात् । न च प्रतिनियतैः प्रदेशै -
इशक्तम् ! नियामकाभावात् । श्रोत्रसमवायेन शब्दो गृह्यत इति
पक्षस्तु इन्द्रियाणामभौतिकत्वस्थापनयाऽपास्तः । अतो यथोप-
लम्भं ततञ्जन्तुषु स्ववृत्त्या तावद्देशव्याप्तं श्रोत्रं तत्तदेशे शब्द
गृह्णातीति । एवमनभ्युपगमे दोषमभिप्रेत्याह - दिग्भदेति ।
यदि श्रोत्रवृत्तिः तत्रतत्र न स्यात् कथं तद्विशिष्टश्शब्दो गृह्यते ?
आनन्ददायिनी
भावः । न च शब्दस्य पुद्गलत्वमस्त्वित्याशङ्कयाह - नापीति । शब्दो
गुणः बाह्ये (के) न्द्रियग्राह्यजातिमत्त्वात् रूपादिवत् इत्यनुमानं द्रष्टव्यम् ।
आदिशब्देन पुराणादिग्रहः । न च शब्दस्येति — वीचीतरङ्गवदुपपत्ति-
कल्पनेत्यर्थः । ननु श्रोत्रस्य व्यापकस्यैवोत्पत्तिकल्पनास्त्वित्यत्राह-
नचेति । न च प्रतिनियतैरिति - कदाचित्कुत्रचित् शब्दग्रह इति नाना-
देशव्यवस्थया शब्दग्रहात् नियतप्रदेशशक्तिकल्पनमित्यर्थः । अन्यथा
दूरस्थशब्दस्याग्रहणेन तत्र देशे शक्तयभावे तत्र गतेऽपि शब्दग्रहो
न स्यादिति भावः । श्रोत्रसमवायेनेति — वैशेषिकपक्ष इत्यर्थः । भूत-