This page has not been fully proofread.

सरः ]
 
रसेश्वरसिद्धान्तदूषणं स्वोक्तनिगमनं च
 
487
 
सर्वार्थसिद्धिः
 
यनमहस्संभवबाह्यालोकानुवृत्त्या दृश्यदर्शनानुवृत्तिस्स्यात् । अतः
 
प्रागुक्तप्रकारैव प्राप्तिरिति ॥ ४० ॥
 
चक्षुरादेः प्राप्यकारित्वम्
 
भवतु चक्षुषस्तेजसाप्यायितत्वात् मणिप्रभान्यायेन काचि-
द्वृत्तिः ; श्रोत्रस्य तु आकाशाप्यायितस्य सा कथमित्यत्राह-
 
आनन्ददायिनी
 
खव्यापित्वाभावादभ्युपेततेजसा मुखग्रहणं न स्यादिति भावः ।
नन्वाभिमुख्येनोत्पन्नस्यापि दर्पणादिसन्निधौ परावृत्तिरस्त्विति चेत् न ;
तथात्वे नयनवृत्त्यैवोपपत्तौ अतिरिक्तकल्पने गौरवप्रसङ्गात् । नच
दूरासन्नार्थयुगपद्गहणा (य)र्थं तदभ्युपगमः ! तथाऽप्यवयव्यन्तरं विना
स्वनयनतेजस्संवलितबाह्यतेजस एव ग्राहकत्वकल्पनोपपत्तेः । किं
चान्धकारस्थपुरुषेण योजनदूरस्थालोकमध्यवर्तिपर्वतादिकं मध्ये च
समीपस्थितालोकमध्यस्थमपि वस्तु युगपदेव गृह्यते । नच दूरास -
न्नपदार्थव्यापि किंचित्तेजोऽन्तरं जन्यते ! मध्येऽन्धकारस्थले बाह्या-
लोकाभावात् । क्रमेण दूरासन्नयोस्तेजसोर्द्वयोरुत्पत्तौ क्रमिकत्वेन यौग-
पद्यग्रहो न स्यात् । तत्र चेत् झाडित्यादिना समर्थनं तदा नयन-
वृत्तेरेवोपपत्तिरिति भावः ॥ ४० ॥
 
॥ चक्षुरादेः प्राप्यकारित्वम् ॥
 
अत्राप्याक्षेपसंगतिमाह -- भवत्विति । आकाशाप्यायितस्येति-