2025-01-21 07:45:01 by ambuda-bot
This page has not been fully proofread.
486
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
लितं तावत्प्रथिमानमवयविनमारभते । तेन च संबन्धादु-
मिषितस्य दूरस्थग्रहणम् । दूरासन्नयोर्युगपग्रहणं च सिध्ये-
दिति ; तदयुक्तम् ; निष्क्रमणकल्पनस्य गुरुत्वात् । अनिष्का-
न्तमेव किंनावयविनमार (भते) भेत ? आन्तरनिष्क्रमणवद्वाह्यप्रवेशो-
पपत्तेः । अपि च अस्मिन् पक्षे त्रिभुवनविवरव्यापिना तेजसा सह
चाक्षुषतेजस्संवलनात्तेन संबद्धं सर्वं युगपद्भासेत पश्चाद्भागाव-
(गादि) स्थितं च । अथ आर्जवावस्थानमपेक्षणीयमित्युच्येत; तदा
अस्मद्व्याप्तेस्सिद्धत्वात् । अन्यथा दर्पणतरङ्गादिसन्निधाने स्वम्-
खादिग्रहणं न स्यात् । किश्च निमीलिताक्षस्यापि प्रानिष्ट्रयतन-
आनन्ददायिनी
रूपं तेज इति विवक्षितं उत तत्संबन्धि ? इति विकल्पमभिप्रे-
त्याद्यं दूषयति – निष्क्रमणेति । चाक्षुषं चक्षुरेव । प्रज्ञादित्वात्
स्वार्थिकोऽण् प्रत्ययः । गौरवमेवोपपादयति — अनिष्क्रान्तमेवेति ।
तद्देशाप्रविष्टस्य कथं तत्रारम्भकत्वम् ? इत्यत्राह - - आन्तरेति । अन्त-
स्स्थस्य (विकारावस्थाशून्यस्य) तद्देशापरित्यागेन निष्क्रमणकल्पनायां
निष्क्रमणं विनाऽपि बाह्यदेशप्रवेशोऽस्तु आन्तरदेशपरित्यागकल्पने चान्ध-
तापत्तिरित्यर्थः। ननु भवतां वृत्तेरि (विवृत्तेरि) व चाक्षुषतेजः प्रभाया निर्ग
मने को दोष: ? इत्यत्रा (निर्गमने दोष इति द्वितीयं पक्षमाशङ्कया) ह-
अपिचेति तदा अस्मद्व्याप्तेरिति -- तथाच अस्मदुक्तप्राप्तेरावश्यकत्वा-
तन्मत्रेणैव ग्रहणोपपत्तौ (वा) बाह्यतेजसासमामवयव्यन्तरं न कल्प्य -
मित्यर्थः । अस्मदुक्तप्राप्तेरावश्यकतामाह — अन्यथेति । आभिमुख्येन
तेजोऽन्तरोत्पत्तावपि नयनवृत्तीनां परावृत्य प्राप्तयनभ्युपगमे स्वमु-