This page has not been fully proofread.

सरः]
 
प्राप्तिप्रकारान्तरनिरासः रसेश्वरपक्षानुवादश्च
 
सर्वार्थसिद्धिः
 
485
 
ह्यहङ्कारविकारयोश्चक्षुश्श्रोत्रयोर्यावदेशस्थविषयग्राहित्वं दृष्टं ताव -
त्पृथुत्वं तत्तच्छरीरोत्पत्तिसमयसिद्धं ; तत्राधिष्ठानाद्वहिरवस्थि-
तांशो वृत्तिरित्युच्यत इति तदा निमीलनाद्यवस्थायामपि ग्राहक -
त्वप्रसङ्गः ; प्राप्तेरनपायात्, अथ पृथ्वग्रा संतताऽपि बहिर्वृत्तिः
दीपप्रभान्यायेन विनश्यति ; अत एव छन्नग्रहणाभाव इति ;
तथात्वेऽप्येकस्यादृश्यमानपृथुत्वाणुत्वाद्यनन्तावस्था स्वतो भिन्ना-
भिन्नवृत्त्यंशनाशः तन्नाशेऽपि स्वरूपावस्थानमित्यादिबहुविध-
कल्पनापात इति । यत्तु कैञ्चिदुच्यते - निष्क्रान्तमात्रमेव चा-
क्षुषं तेजः वाह्येन बहुदेशव्यापिना चन्द्रसूर्यादिज्योतिषा संव-
 
आनन्ददायिनी
 
अतिप्रसङ्गमेव दर्शयति-- तदा निमीलना (लिता ) द्यवस्थायामिति ।
तथात्वेऽपीति --- एकस्येन्द्रियस्य विषयग्रहणकाले विषयदेशव्यापिपृथु-
त्वावस्था निमीलनकाले नाशात्मकसंकोचरूपाणुत्वावस्था च अदृश्यमाने
कल्प्ये इत्येको गौरवदोषः । बहिर्गतांशस्यावयविना समं भिन्नाभिन्नत्वाद्वा
भिन्नांश (भिन्नाभिन्नत्वात्स्वांश) ( भिन्नाभिन्नत्वात्स्वाभिन्नांश) नाशेऽपि
तदभिन्नेन्द्रियस्वरूपस्यावस्थानं चात्यन्तादृश्यमानं कल्प्यमित्यपरो दोषः ।
तथा (तदा) पि (वि) नष्टावस्थस्य च चक्षुरुन्मीलनानन्तरं तावद्व्यापिन-
श्चक्षुष उत्पत्तिरित्यादिबहुदोष इत्यर्थः । यत्तु कैश्चिदिति – रसेश्वरा-
दिसि (श्वरसि) द्धान्तिभिरित्यर्थः ॥
 
निष्क्रान्तं चाक्षुषं तेजो बाह्यालोकेन वर्धितम् ।
दूरासन्नार्थयोर्नित्यं गृह्णाति युगपत्कचित् ॥
 
--
 
इत्युक्तेः । नैयायिकैकदेशिन इत्यप्याहुः । चाक्षुषं तेज इति - चक्षू-