This page has not been fully proofread.

484
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
योग्यक्षणादयोग्यक्षणोत्पत्तौ कारणक्षणस्य सर्वैरदृष्टस्तत्तत्स्वरू-
पातिरिक्तश्शक्तिभेदो वा सहकारिभेदो वा कल्प्यः । उभयपि
स्वमतबाधकम् । दृष्टं छादकमेवायोग्य क्षणोत्पादन सहकारीति
चेन्न ; अपसिद्धान्तात् । छादकस्य किञ्चित्करत्वानपायात् ।
तोयादिव्यवहितेऽप्यग्रह (ण) प्रसङ्गात् । छन्नस्य च सर्वादृश्यत्वप्र-
सङ्गात् । नेत्रसन्नि (हितेन) कृष्टेन पक्ष्मकरतलादिना दवीयस्तरदि-
वाकरक्षणोत्पत्तेरत्यन्तम (रत्य) द्भुतत्वाच्च; तस्मादस्मदुक्तमेव
(छादक) साफल्यम् । उक्तातिप्रसङ्गस्सांख्यादि पक्षेऽपि समः । यदि
आनन्ददायिनी
 
भ्युपगमः । योग्यक्षणादिति - अव्यवधानस्थले योग्यकारणक्षणस्य योग्य-
क्षणोत्पादकत्वस्यैव दर्शनात् व्यवहितस्थळे शक्तिवैलक्षण्यं कल्प्यमित्यर्थः ।
ननु तत्र क्षणस्वरूपमेव हेतुरस्तु न तदतिरिक्तशक्तिकल्पनेति चेन्न ; वैजा-
त्यस्यावश्यकल्प्यत्वात् ; अन्यथा घटादि (घटाधार) (अन्याधार) क्षणस्यान्य-
(स्यपटादि) क्षणोत्पादकतापातात् । स्वमतबाधकमिति - स्वरूपातिरिक्तश
क्तिभेदाङ्गीकारे धर्मधर्मिभावभेदरहितस्वमतबाधः । सहकार्यङ्गीकारे च सह-
कारिणा सहकार्ये किञ्चित्कार उत्पद्यते न वेत्यादिविकल्पने (ल्पिते) न
सहकारिनिरासात् स्वमते तद्बाध इत्यर्थः । केचित्तु इन्द्रियाणां प्राप्तिकल्पने
गौरवादिति स्वापादितमतस्य बाधकमि ( त्यर्थः) त्याहुः । ननु कल्प्यत्वे
गौरवं किंतु दृष्टमेवाङ्गीक्रियते इत्याशङ्कते - दृष्टं छादकमेवेति ।
अपसिद्धान्तमेवोपपादयति -- छादकस्येति । तोयादीति-तत्रापि छादक-
सहकारिणा योग्यताशून्य (स्यक्षण) स्योत्पत्तेरिति भावः । अत्यन्तमिति-
कारणानां कार्यदेशसन्निहितानामेव जनकत्वात् अन्यथाऽतिप्रसङ्गादिति
भावः । प्रागुपक्षिप्तं परोक्तं प्राप्तिप्रकारं दूषयति — उक्तातिप्रसङ्ग इति ।
 
----